अष्टावक्रः――अथ किम् । देवि, भगवान्वसिष्ठस्त्वामिदमाह। 'वत्से,भगवती पृथ्वी ते जननी, राजा जनकस्ते पिता, रघुकुलपार्थिवानां वधूस्त्वमसि। अतः केवलं वीरप्रसविनी भव' इति।
राम:――अनुगृहीताः स्मः।
EXERCISES.
(i) (a)Separate the following words :——
आश्रमादष्टावक्रः; शान्तायाश्च; वधूस्त्वमसि |
(b)Explain the following sandhi :——
इत आस्यताम्।
•(2) Fill in the blanks:――
(i)ऋष्यशृङ्गाश्रमात् ―― संप्राप्तः ।
(ii)अपि ――जामातुरायीयाः ―― च
(iii)अत: केवलं ―― भव ।
(3) Explain the force of अपि in the sentence,'अपि कुशलं ” etc.
वि-लम्ब् (Atm.) To delay. प्रवेशय Admit.स्वस्ति Hail. अभि-वाद् (Atm.) To salute.आस् (Atm.)To sit.अथ
किम् Yes.पार्थिवःA king. वधूः A daughter-in-law. अनु-ग्रह To favour.
१४अपहृतगोधनं ब्राह्मणाय प्रत्यर्पणम्।
अथैकदा केचित्तस्कराः कस्यचिद्ब्राह्मणस्य गोधनमपाहरन्। तदा स ब्राह्मणः क्रुद्धः खाण्डवप्रस्थमागम्य पाण्डवानुदक्रोशत्। प्रसह्य ह्रियते गोधनं क्षुद्रैर्नृशंसैर्नरैः । धावत पाण्डवाः ।