श्यालः - ( प्रविश्य) सूचक, मुञ्चैनं धीवरम् ।
प्रथमः- यथा भर्ता भणति ।
द्वितीयः- एष यमसदनं प्रविश्य प्रतिनिवृत्तः ।
( पुरुषं मोचयति । )
श्यालः- एप प्रसादोऽपि तस्मै राज्ञा दत्तः ।
( पुरुषाय द्रव्यं यच्छति )
पुरुष: - ( सप्रणामं गृहीत्वा ) भर्त:, अनुगृहीतोऽस्मि
जानुकः-भर्तः, तस्मिन्नङ्गुलीयके यद्रत्नं तन्महाराजस्य रुचयेऽभव-दिति मन्ये ।
श्यालः- नहि, नहि । अङ्गुलीयकं दृष्ट्वा भर्ता निजं प्रियजनमस्मरत् ।अनन्तरं तस्य नेत्राभ्यामश्रूण्यगलन् ।
सूचक:- सेवितं नाम भर्त्रा ।
जानुकः ननु भण अस्य धीवरस्य कृते ।
( इति पुरुषं मत्सरेण पश्यति)}}
पुरुषः- अस्यार्धे युष्माकं भवतु ।
जानुकः- एतद्युक्तमेव ।
श्यालः- धीवर, त्वमिदानीं मे प्रियवयस्यः संजातः । एहि, गच्छामोवयम् ।
( इति सर्वे गच्छन्ति )
Note :—A dialogue for boys to act.
मुद्रिका A ring. प्र - सद् To be pleased. खण्डशः कृतः Cut into pieces. विक्रय: Sale प्रति-पा ( Causal) To guard. अनु-ग्रह् To favour. रुचि: Liking. कृते (gov.gen.) For the sake of आगम: Obtaining.