mouth. हालहालं विषं A deadly poison. प्रकोपित Excited; tormented. विक्रिया A change. तापयितुं To heat. तृणोल्का A torch of hay यस्यार्था: One who possesses wealth.
१०. मुद्रिकायाः प्राप्तिः ।
( ततः प्रविशति श्यालः पश्चाद्रक्षकौ पुरुषश्च । )
रक्षकौ- रे तस्कर, कथय कुत्र त्वयैषा मुद्रिका लब्धा ।
पुरुषः- प्रसीदत सुजनाः । अहमीदृशं कर्म न कदापि करोमि ।
प्रथम:- किं शोभनो ब्राह्मण इति मत्वा पारितोषिकं दत्तम् ।
पुरुषः- अहं जात्या धीवरोऽस्मि ।
द्वितीयः- रे शठ, किमस्माभिर्जातिः पृष्टा । श्यालः-सूचक, कथयतु सर्वमनुक्रमेण ।
सूचक: - यथाज्ञापयति भर्ता ।
पुरुषः- एकस्मिन् दिवसे रोहितो नाम मत्स्यो मया खण्डशः कृतः । तस्योदरे मयैषा मुद्रिका दृष्टा । तस्या विक्रयाय दर्शयन् गृहीतो भवद्भिः ।मारयत वा मुञ्चत वा । अयमस्या आगमस्य वृत्तान्तः ।
श्यालः – जानुक, निःसंशयं धीवर एवैषः । भवतु । राजकुलमेव गच्छामि । तावत्प्रतिपालयेमं नरम् ।
( गच्छति श्यालः )
प्रथमः - जानुक, स्फुरतो मम हस्तावस्य वधाय ।
द्वितीयः - नैतदुचितं कस्यापि प्राणान् कारणं विनापहर्तुम् ।
प्रथमः- जानुक, किमित्यस्मद्भर्ता नाद्याप्यायातः ।
द्वितीयः - ( विलोक्य) एष आवयोः स्वामी इत एवागच्छति ।