पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अन्नप्राशनम्]
८९३
संस्काररत्नमाला ।

शततारकाः । उत्तराशब्देनोत्तरात्रयम् । पोष्णं रेवती । मित्रोऽनूराधाः । अन्यत्प्रसिद्धम् । ज्योतिरर्णवे विशेषः--

"जन्मर्क्षे श्रीक्षयं विद्यात्कर्मर्क्षे चापि सौम्यदृक् ।
आधानर्क्षे च बालानां भोजनं रोगनाशनम्" इति ॥

 एतानि तु संग्रहे--

"ज[१]न्मदं जन्मनक्षत्रं दशमं कर्मसंज्ञितम् ।
एकोनविंशमाधानम्" इति ॥

 यत्तु--

"पट्टबन्धनचौलान्नप्राशने चोपनायने ।
[२]शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि"

 इति नारदवचनं तत्क्षत्त्रियविषयम् । पट्टबन्धनसाहचर्यात् । जन्मर्क्षे विकल्प इति प्रयोगपारिजाते । प्राशनविधिमाह वसिष्ठः--

"देवतापुरतस्तस्य धात्र्युत्सङ्गगतस्य च ।
अलंकृतस्य दातव्यमन्नं पात्रे स काञ्चने ॥
मध्वाज्यशर्करोपेतं प्राशयेत्पायसं तु तत्" इति ॥

 धात्री माता । स कर्ता । आश्वलायनोऽपि विशेषमाह-- "घृतौदनं तेजस्कामो दध्योदनमिन्द्रियकामो मध्वोदनमायुष्कामो दधिमधुघृतमिश्रमन्नं प्राशयन्सर्वकामो भवतीति विज्ञायते" इति ।

 कश्यपसंहितायाम्--

"बालकं प्राङ्मुखं कृत्वा प्राशयेच्च विधानतः ।
स्वर्णदर्व्याऽथवा रौप्यदर्व्या वा मङ्गलस्वनैः" इति ॥

 इदं च कुमार्या अप्यमन्त्रकं कार्यम् ।

 अत्र जीविकापरीक्षा मार्कण्डेयेनोक्ता--

"देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्वशः ।
अस्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम् ॥


  1. ङ. च. जन्मभं ।
  2. अत्र यद्यपि "अशुभं जन्मनक्षत्रं शुभदं त्वन्यकर्मणि" इत्येव पाठः पुस्तकेषु वर्तते तथाऽपि अयं ग्रन्थकारासंमत एवेति ज्ञेयम् । अन्यथा पूर्वोत्तरग्रन्थासंगतेः । अत:, शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणीति पुरुषार्थचिन्तामणौ पाठ इति क. पुस्तकटिप्पणीस्थ एव पाठोऽन्तः स्थापितः । सर्वपुस्तकस्थपाठस्तु लेखकभ्रान्तिमूलक इति द्रष्टव्यम् ।