"भविष्यं सांप्रतं चैव व्यतीतं ज्ञातवान्मुने । |
ततस्तिलगुडसंमिश्रमञ्जल्यर्धमितं दुग्धं गृहीत्वा---
"सतिलं गुडसंमिश्रमञ्जल्यर्धमितं पयः । |
ततो ब्राह्मणेभ्यस्तिलान्क्षीरं घृतं गुडं च दत्त्वा सौभाग्यवतीभिः पुत्रवतीभिः स्त्रीभिर्नीराजित आचाराद्यथाविभवं स्वजनबन्धुसुहृन्पूजां स्ववाहनपूजां च कृत्वा स्थापितकलशोदकेन ब्राह्मणैरभिषेकं कारयित्वा स्थापितदेवतानामुत्तरपूजां विधाय प्रतिमा चेत्तामाचार्याय दत्त्वा ब्राह्मणान्सुवासिनीश्च भोजयित्वा तदाशिषो गृहीत्वा स्वजनबन्ध्वादिभिः सह भुञ्जीयात् । अस्मिन्दिने हविष्याशी भवेत् । अस्मिन्दिने नखकेशनिकुन्तनप्रवासमैथुनकलहादि वर्जयेत् । एवं बालकस्यापि यथायोग्यम् । एतच्च जन्मनक्षत्रे जन्मदिने वाऽर्वाक्संवत्सरात्प्रतिमासं कार्यम् । तत ऊर्ध्वं प्रतिसंवत्सरं बाल्यावस्थायां पित्रादिनैतत्कार्यं तस्यायोग्यत्वात् । योग्यतायां तु स्वस्याऽऽयुर्वर्धापनं स्वेनैव कार्यम् । तत्र ममाऽऽयुरभिवृद्धिद्वारेति संकल्पवाक्य ऊहः । पित्रादिकर्तृके तु मह्यं प्रयच्छ दीर्घायुरित्यत्र, अस्मै प्रयच्छेत्यूहः कार्यः । तथा मामित्यत्र तथेममित्यूहो मार्कण्डेयप्रार्थने । भव त्वं ममेत्यत्र भव त्वमस्येति अश्वत्थामप्रार्थने । 'प्रपन्नः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मे' इत्यस्मिन्नर्धे 'प्रपन्नः शरणं त्वाऽयं देह्यायुर्दीर्घमस्य भोः' इत्यर्थं बलिप्रार्थने । हनूमन्रक्षेमं