पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५८
[नामकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

र्भावात्तन्नाम्नैव व्यवहारसौकर्यादिति बोध्यम् । आदृतं तु मातृदत्तेनाऽऽभिजित इति नक्षत्रनाम, तस्यापि स्वीकारः । अभिजित्स्वरूपं ब्राह्मणेऽभिहितम्--'अभिजिन्नाम नक्षत्रमुपरिष्टादषाढानामवस्ताच्छ्रोणायाः' इति ।

 विवृतमेतद्वसिष्ठेन--

"अभिजिद्भभागमेतद्वैश्वदेवान्त्यपादमखिलम् ।
आद्याश्चतस्रो नाड्यो विज्ञेया हरिमस्य बुधैः" इति ॥

 वैश्वदेवमुत्तराषाढाः । चतस्र इति पञ्चदशांशोपलक्षणम् । द्वयोर्नक्षत्रयोर्वृद्धिक्षयालोचनेन पादपञ्चदशांशावभिजिदित्यर्थः । स्त्रीणामेतान्येव नक्षत्रनामानि स्त्रीप्रत्ययान्तानि कार्याणि मातृदत्तोक्तेः । कृत्तिका रोहिणी मार्गशीर्षी [आर्द्रिका] पुनर्वसू(सुः) तिष्याऽऽश्लेषी(षा) माघी फा(फ)ल्गुनी हस्ता चैत्री(चित्रा) स्वातिर्वैशाखी(र्विशाखा) अनुराधा ज्येष्ठा(ज्यैष्ठी) मूलिकाऽषाढा, [अभिजित्] आभिजिता(ती) श्रावणी श्रवणा श्रविष्ठा शतभिषक्शातभिषजी प्रोष्ठप(पा)दी रै(रे)वती, अश्वयुगाश्वयुजी, अपभरण्या(णाऽऽ)पभरणी, इत्युदाहरणानि । जन्मनक्षत्रदेवतानाम ज्यौतिषे--

"नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम्" इति ॥

 एतच्छब्दपरामृष्टा नक्षत्रदेवतास्तु--

"अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमाऽपि च ॥
सविता त्वष्टाऽथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निर्ऋतिरापो वै विश्वे देवास्तथैव च ॥
विष्णुर्वसवो वरुणोऽज एकपात्तथैव च ।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च " इति ।

 एता देवताः कृत्तिकाप्रभृति ज्ञेयाः । अभिजिद्देवता तु ब्रह्म श्रुतितो ज्ञेयम् । अत्र कृत्तिकादावुत्पन्नस्याऽऽग्नेयः प्राजापत्य इत्येवमादीन्युदाहरणानि । एतानि यज्ञकर्मण्येव विकल्पेन प्रवर्तन्ते ।

 तृतीयं तु परिशिष्टे--

"तदक्षरादिकं नाम यस्मिन्धिष्ण्ये यदक्षरम्" इति ।

 अक्षरमित्येकवचनं पादाक्षराभिप्रायेण ।