पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नामकरणम्]
८५७
संस्काररत्नमाला ।

 तत्रोक्ततद्धितान्तानां नक्षत्रनाम्नां संग्रहार्थः श्लोकः प्रयोगवैजयन्त्यां सुदर्शनभाष्ये विद्यारण्यकृतबौधायनीयदर्शपूर्णमाससूत्रभाष्ये चोदाहृतः--

"रोरेममृज्येचिषु वृद्धिरादौ ठात्पे च वाऽन्त्यश्रवशाश्वयुक्षु ।
शेषेषु नाऽऽर्म्वो कपरः स्वरोऽन्त्यः स्वाप्वोरदीर्घः सविसर्ग इष्टः" इति ।

 अस्यार्थः--रोहिणी रेवती मघा मृगशीर्षं ज्येष्ठा चित्रेत्येतेषु आद्याक्षरनिर्दिष्टेषु आदावाद्याक्षरे वृद्धिर्भवति । 'नक्षत्रेभ्यो बहुलम्' इति बहुलग्रहणाज्जातार्थप्रत्ययस्य लुगभावः । रूपं च रौहिणः, रैवतः, माघः, मार्गशीर्षः, ज्यैष्ठः, चैत्र इति । ठात्पे च । प्रोष्ठपदेत्यत्र ठकारात्परे पकारे च वृद्धिर्भवति । 'जे प्रोष्ठपदानाम्' इत्युत्तरपदवृद्धिरित्यर्थः । पूर्ववच्च लुगभावः । रूपं च प्रोष्ठपाद इति । वाऽन्त्यश्रवशाश्वयुक्षु । अन्त्यमाम्नानतः । अपभरणीत्यर्थः । श्रवः श्रवणः । शः शतभिषक् । अश्वयुगित्येतेषु चतुर्षु विकल्पेन वृद्धिः । तत्र श्रवणापभरण्योर्बहुलग्रहणादेव लुको विकल्पः । अश्वयुक्शतभिषजोस्तु 'वत्सशालाभिजिदश्वयुक्छतभिषजो वा' इति सूत्रेण । रूपं च-- अपभरणं आपभरणः । श्रवणः श्रावणः । शतभिषक्, शातभिषजः । अश्वयुगाश्वयुज इति । शेषेषु न । उक्तेभ्योऽन्येषु नक्षत्रेषु न वृद्धिः । यतोऽत्र 'श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्' इत्यनेन 'नक्षत्रेभ्यो बहुलम्' इत्यनेन च लुग्भवति । 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययनिवृत्तिः । अत्र बहुलशब्देन पर्यायभूतानां कृत्तिकानामपि ग्रहणम् । रूपं च कृत्तिकः, तेष्यः, फल्गुनः, आश्लेषः, हस्तः, विशाखः, अनुराधः, अषाढः, श्रविष्ठ इति । आर्म्वोः कपरः स्वरोऽन्त्यः । आर्म्वोरार्द्रामूलयोरन्त्यः स्वरः कशब्दपरो भवति । 'पूर्वाह्णापराह्णार्द्रामूला' इत्यादिसूत्रेण वुन्प्रत्यये 'युवोरनाकौ' इति स्याकादेशे 'यस्येति च' इत्यनेनाऽर्द्राशब्दान्त्याकारलोपे च कृत आर्द्रको मूलक इति रूपद्वयं सिद्धं भवति । आरित्यत्र रेफग्रहणमाश्लेषाग्रहणाकारेण मा भूदित्येतदर्थम् । स्वाप्वोरदीर्घः सविसर्ग इष्टः । स्वाप्वोः स्वातीपुनर्वस्वोरन्त्यः स्वरो ह्रस्वः सविसर्गश्चेष्टः । 'श्रविष्ठाफल्गुन्यनुराधा' इत्यालुक् सविसर्गत्वं च । पूर्वस्त्रीप्रत्ययनिवृत्तौ हल्ङ्यादिलोपाभावात् । स्य तूकारान्तत्वादिति । रूपं च स्वातिः पुनर्वसुरिति । स्वातीति सदीर्घप्रत्पुनर्वस्वोर्द्वित्वेन च पुनर्वसू इति सदीर्घत्वप्रसक्तेरदीर्घत्वमुक्तम् । एवं विंशतिनक्षत्रसंबन्धिनाम्नां सिद्धिः । नक्षत्रेष्टिष्वभिजितः पृथगाम्नानेऽपि निनाऽषि 'वत्सशालाभिजिदश्वयुक्' इति तत्प्रकृतिकयोरभिजिदाभिजित नाम्नोरनुशिष्टयोरपि श्लोके योऽनादरस्त(र: स त)स्य नक्षत्रान्तरेऽन्त


१०८