पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१४
[पुंसवनाङ्गवैशेषिकप्रधानहोमः]
भट्टगोपीनाथदीक्षितविरचिता--

गुविकारेणौदनावस्रावितद्रव्येण मिश्रं तद्रसं वोत्तरपूर्वस्य यूपस्यागिष्ठाश्रेः सकाशाच्छकलं गृहीत्वा चूर्णीकृत्योदकेन घृतेन वा मिश्रयित्वा तद्वाऽऽसाद्य दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यमित्येतान्यासादयेत् । निर्मन्थ्यस्याग्नेर्धूमस्यौष्ण्यस्य वा दक्षिणनासिकाछिद्रे प्रणयनपक्षे येन चार्थ इतिवचनादरण्योरप्यासादनं प्रोक्षणं च । लौकिकाग्निधूमप्रणयनपक्षे लौकिकाग्नेरासादनमात्रं कर्तव्यं न तु प्रोक्षणम् । अग्नेरुपरि जलपातने दोषदर्शनात् । उत्तरपूर्वो यूपो यूपैकादशिन्यामेव संभवति । उत्तरपूर्वत्वं चोत्तरवेद्यपेक्षया ज्ञेयम् । वचनाद्यूपस्पर्शो न दोषाय । यज्ञसमाप्तेः प्राग्वा ग्रहणम् । ततो ब्रह्मवरणादि सामान्यप्रधानान्तं कर्म समानम् ।

अथ वैशेषिकप्रधानहोमः ।

 धाता ददात्विति चतुर्णां विश्वे देवा ऋषयः । धाता देवता । प्रथमस्य गायत्री । द्वितीयस्य त्रिष्टुप् । तृतीयस्यानुष्टुप् । चतुर्थस्य त्रिष्टुप् । पुंसवनवैशेषिकप्रधानाज्यहोमे विनियोगः ।

 ॐधाता ददातु नो रयिमी० नत्स्वाहा' धात्र इदं न मम । 'ॐ धाता प्रजाया० धेम स्वाहा' धात्र इदं न मम । 'ॐ धाता ददातु नो रयिं प्रा० धसः स्वाहा' धात्र इदं न मम । 'ॐ धाता ददातु दा० जोषाः स्वाहा' धात्र इदं न मम । इति चतस्र आहुतीर्हुत्वेमं मे वरुणेत्यङ्गहोमजयाद्युपहोमादि संस्थाजपान्तं कृत्वा त्रिवृदन्नहोमं पुण्याहादिवाचनं च विधाय प्रजापतिः प्रीयतामिति वदेत् ।

 ततोऽपरेणाग्निमुपरिबद्धशुभ्रवर्तुलवितानस्याधस्तात्कर्मार्थत्वेन स्नातां शुद्धवस्त्रां गन्धभूषणादिभिरलंकृतां शिष्टाकुटिलब्राह्मणेन कृतसंभाषणां भार्यां प्राङ्मुखीमुपवेश्य 'वृषाऽसि' इति तस्या दक्षिणे हस्त आसादितं यवं वितुषं प्राञ्चं निदधाति । 'आण्डौ स्थः' इति तस्याभित आसादितौ द्वौ सर्षपौ धान्यमाषौ वा स्थापयति । सकृदेव मन्त्रो द्विवचनलिङ्गात् । सूत्रे धान्यग्रहणं परिमाणमाषनिवृत्त्यर्थम् । 'श्वावृत्तत्' इति यवसर्षपोपर्यासादितं गोदधिद्रप्सं प्रक्षिपति । द्रप्सशब्देन दध्न उपरिस्थो घनीभूतोंऽश उच्यते ।

 ततस्तृष्णीं प्राशयति । ततः-- 'ॐ अभि ष्ट्वाऽहं दशभिरभिमृशामि दशमास्याय सूतवै' इति कृतशुद्धाचमनायास्तस्या उदरं हस्ताभ्यामभिमृशति । दशभिरभिमृशामीति मन्त्रलिङ्गाद्धस्तद्वयेनाभिमर्शनम् । न्यूनाङ्गुलेरधिकाङ्गुलेर्वा कर्तुर्दशभिरितिपदस्य लोपः । ऊहो वा नवभिरेकादशभिरिति ।