पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९४
[तर्पणविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

 संक्रान्तिरय[१]नाभिन्नेति प्रयोगपारिजाते ।

मरीचिः--

"तिथितीर्थविशेषेषु ग[२]ङ्गायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्" इति ॥

बौधायनोऽपि--"तिथितीर्थविशेषेषु कार्यं प्रेते च सर्वदा" इति ।

 तिथिविशेषोऽष्टकाकपिलषष्ठ्यादिः । तीर्थविशेषशब्देन यस्य तीर्थस्य समीपे निवसति तद्व्यतिरिक्तं तीर्थं ग्राह्यम् । अन्यथा तीर्थ इत्येतावतैव सिद्धौ विशेषपदवैयर्थ्यापत्तेः । एतच्च गङ्गातिरिक्तपरम् । तस्याः पुनर्ग्रहणात् । गयायामितिपाठाङ्गीकारे तु गङ्गासमीपवासिनामपि निषेधोऽस्त्येव ।

 जीवत्पितृकस्य कृष्णतिलतर्पणं निषेधति व्यासः--

"मुण्डनं पिण्डदानं च प्रेतकर्म च नित्यशः ॥
न जीवत्पितृकः कुर्यात्तिलैः कृष्णैश्च तर्पणम्" इति ।

 पिण्डदाने प्रेतकर्मविषये च प्रतिप्रसवः श्राद्धप्रकरणे द्रष्टव्यः । सति संभवे काण्डर्षितर्पणमपि कार्यम् । उक्तं च काण्डानुक्रमणिकायाम्--

"अथ काण्डऋषीनेतानुदकाञ्जलिभिः शुचिः ।
अव्यग्रस्तर्पयेन्नित्यमन्नैः पर्वाष्टमीषु च" इति ।

 अवसानाञ्जलिमाह कात्यायनः[३]--

"ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत्त
उदकमर्हन्ति तांस्तर्पयामीत्यवसानाञ्जलिः" इति ।

 आदित्यपुराणे[४]ऽपि-

"यत्र क्वचन संस्थानां क्षुत्तृषोपहतात्मनाम् ।
तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकम् ॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
तेषां तु दत्तमक्षय्यमिदमस्तु तिलोदकम्" इति ।

मत्स्यपुराणेऽपि--

येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखि[५]ला यान्तु यश्चास्मत्तोऽम्बु वाञ्छति" इति ।

 विस्तरेण कर्तुमसमर्थस्य संक्षेपेण तर्पणमुक्तं स्मृत्यन्तरे--

"आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।


  1. क. ङ. यनभि ।
  2. च. गयायां ।
  3. ङ. च. नः-पि ।
  4. च. णे--य ।
  5. क. खिलां या ।