पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तर्पणविधिः]
११९३
संस्काररत्नमाला ।

हलायुधीये--

"द्वादश्यां निशि सप्तम्यां रविशुक्रदिने तथा ।
श्राद्धे जन्मदिने चैव न कुर्यात्तिलतर्पणम्" इति ॥

 सर्वेऽपि निषेधास्तिलमात्रपरा न तु नित्यतर्पणपरा अन्यथा तिलपदवैयर्थ्यापत्तेः । ([१] अत्र[२] होम(महे)शादयः--सर्वे तिलतर्पणनिषेधा गृहविषयाः ।

"सप्तम्यां रविवारे च जन्मर्क्षदिवसोत्सवे ।
गृहे निषिद्धं सतिलं तर्पणं तद्वहिर्भवेत्" ॥

 इति सत्यव्रतेन निषिद्धदिनेषु बहिस्तिलतर्पणविधानादित्याहुः । अन्ये तु--गृहस्य पृथगेव तिलतर्पणनिषेधनिमित्ततेति सर्वदैव सतिलं तर्पणं गृहे निषिद्धमिति व्याचक्षते । अपरे तु गृहेऽपि तिलोदकेन शिष्टानां तर्पणाचारदर्शनात्सत्यव्रतोक्तः सप्तम्यादिकालत्रय एव गृहे सतिलतर्पणनिषेधः स्वारसिको नतु सर्वदा नापि निषिद्धकालान्तरे । उपलक्ष[ण]त्वे प्रमाणाभावात् । अन्यथा प्रतिप्रसववाक्यानां गृह एव तर्पणविधानेना(ता)त्पर्यं वक्तव्यमिति महदनिष्टम् ।

तथा हि--

"अयने विषुवे चैव संक्रान्तौ ग्रहणेषु च ।
उपाकर्मवृषोत्सर्गयुगादौ मृतवासरे ॥
सूर्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे" इति ।

 तथा--

"उपरागे पितुः श्राद्धे पातेऽमायां च संक्रमे ।
निषेधेऽपि हि सर्वत्र तिलैस्तर्पणमाचरेत्" ॥

 इत्यादिवचनैर्भवन्मते गृहे निषिद्धतर्पणस्य पुनः प्रापणेन संनिहितेऽपि महातीर्थे गृह एव तर्पणं स्यात् । किंच जाह्नव्या[३]दौ निषेधस्याप्राप्तत्वात्

"विशेषतस्तु जाह्नव्यां सर्वदा तर्पयेत्पितॄन् ।
न कालनियमस्तत्र क्रियते सर्वकर्मसु ॥
तिथितीर्थशेषे च गयायां पितृपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्" ॥

 इति स्कान्दाद्युक्ता(क्त)प्रतिप्रसवोऽप्यनुपपन्नः स्यादित्याहुः ।)

 तर्पणनिषेधप्रतिप्रसवमाह गोभिलः--

"संक्रान्त्यादिनिमित्तेषु स्नानाङ्के तर्पणे तथा ।
तिथिवारनिषेधेऽपि तिलैस्तर्पणमाचरेत्" इति ॥


१५०
 
  1. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
  2. च. त्र. लोमशा ।
  3. च. न्यादिनि ।