पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तर्पणविधिः]
११९१
संस्काररत्नमाला ।

भिषिक्तादिजातीनामुपलक्षणार्थः । यद्यप्यसवर्णसापत्नमातृभ्रात्रादयोऽप्यसवर्णास्तथाऽपि तर्पणं कार्यमेव ।

"पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तद्दु-
हितरश्च भगिन्यस्तदपत्यानि भागिनेयानि" इति सुमन्तुवचनात् ।

 यत्र च समत्वापादनं तत्र मुख्यापेक्षया किंचिन्न्यूनता भवतीति नात्र तत्प्राधान्यम् । अपि तु स्वसंनिहितसवर्णतर्पणानन्तरमेव तत्तर्पणमिति विवेकः । ननु सुमन्तुवचनेऽपि सवर्णानामेव मात्रादिसाम्यं भवतु मा नाम भूदसवर्णानामिति चेन्न । तथा सति पितृपत्न्यः सर्वा मातर इति न ब्रूयात् । उपात्तश्च सर्वशब्दो न तु पितृपत्न्य एव । अतः सर्वशब्दासंकोचाय पूर्वोक्त एक युक्तः पक्षः । एतेन भीष्मतर्पणमपि ब्राह्मणस्य निषिद्धमित्युक्तं भवतीत्याह । ([१] एतस्मादेव मदनपारिजातग्रन्थात्सपत्नभ्रातृमातुलमातृष्वसॄणामपि तर्पणोद्देश्यतायामवगतायामुपलक्षणतया सपत्नपितृव्यादीनामप्युद्देश्यता द्रष्टव्येति केचित् । सापत्नपितामह्यादीनां पितामहीत्वादिना न तर्पणम् । बन्धुत्वेन तर्पणे न दोष इति गागाभट्टाः ।) नामग्रहणे विशेषमाह बौधायनः--

"शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्त्रियस्य तु ।
गुप्तान्तं चैव वैश्यस्य दासान्तं शूद्रजन्मनः" इति ॥

 गोत्रे विशेषमाह स एव--

"चतुर्णामपि वर्णानां पितॄणां पितृगोत्रतः ।
पितृगोत्रं कुमारीणामूढानां भर्तृगोत्रतः" इति ॥

 जीवत्पितृकस्य नित्यतर्पणनिषेधमाह कार्ष्णाजिनिः--

"न जीवत्पितृकः कुर्यान्मात्रादीनां तु तर्पणम् ।
एतेषामपि कर्तव्यं श्राद्धाङ्गं तर्पणं यदि" इति ॥

 जीवत्पितृककर्तृकतर्पणे विशेषमाह योगयाज्ञवल्क्यः--

"कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ।
अग्निष्वात्ताः सोमपाश्च तथा बर्हिषदोऽपि च ॥
यदि स्याज्जीवत्पितृकस्तान्वि[२]न्द्याच्च तथा पितॄन् ।
येभ्यो वाऽपि पिता दद्यात्तेभ्यो वाऽपि प्रदीयते ॥
एतांश्चैव प्रमीतांश्च प्रमीतपितृको द्विजः" इति ॥


  1. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
  2. च. न्विद्याच्च ।