वर्णभेदेन तिलानां विनियोगविशेषं दर्शयति स एव--
"शुक्लैस्तु तर्पयेद्देवान्मनुष्याञ्छबलैस्तिलः । |
शबलः कर्बुरवर्णश्चित्रवर्ण इति यावत् । 'चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे' इत्यमरात् । तेन शुक्लान्कृष्णान्धूसरांश्च तिलान्मिश्रयित्वा तैर्मनुष्यांस्तर्पयेदित्यर्थः । कूर्मपुराणे--
"देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः । |
स्मृत्यन्तरे--
"अद्भिस्तण्डुलमिश्राभिर्देवानां तर्पणं चरेत् । |
पितृतर्पणप्रकारमाह पैठीनसिः--
"स्वनामगोत्रग्रहणं पुरुषं पुरुषं प्रति । |
([१] ब्रह्माण्डपुराणे--
"अञ्जलिद्वितयं दद्याद्देवान्संतर्पयन्बुधः । |
बौधायनः--
"जलाञ्जलित्रयं दद्याद्ये चान्ये संस्कृता भुवि । |
अत्र यथास्वशाखं व्यवस्था वेदितव्या । येषां तु शाखिनामेवाऽऽम्नानं तेषां विकल्प इति हेमाद्रिः । ) योगयाज्ञवल्क्योऽपि--
"सवर्णेभ्यो जलं देयं नासवर्णेभ्य एव च । |
अनुपूर्वशः पित्रादिक्रमेण । अत्र मदनपारिजातः--यद्यप्यसवर्णेभ्य इत्यविशेषेणोपादानं कृतं तथाऽप्युत्तमवर्णेन हीनवर्णोद्देशेन न कार्यम् । होनवर्णेनोत्तमवर्णोद्देशेन कृते न दोषः । यतस्तद्वर्णतापत्तिर्दोषत्वेनाभिहिता स्मृतिषु । हीनस्योत्कृष्टत्वं न दुष्टम् । उत्कृष्टस्य हीनत्वं तु दुष्टमेव । सवर्णशब्दो मूर्धा
- ↑ धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।