पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६४
[उत्सर्जनविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

अथोत्सर्जनविधिः ।

 तत्र सूत्रम्--

"सगणः प्राचीनमुदीचीं वा दिशमुपनिष्क्रम्य यत्राऽऽपः सुखाः सुखावगाहास्तत्रावगाह्याऽऽधमर्षणेन त्रीप्राणायामान्कृत्वा सपवित्रैः पाणिभिरापो हि ष्ठेति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इति चैतेनानुवाकेन स्नात्वा" इति ।

 सगणः सशिष्यगणः । सशिष्य इत्येव वक्तव्ये सगण इतिवचनं स्वसंनिधौ स्थितानामकृतविवाहानामेवात्र ग्रहणं नेतरेषामितिद्योतनार्थम् । तेन कस्यचित्कृतविवाहस्य गृहस्थाश्रमिणः शिष्यस्य पुनर्गुरुसंनिधानेऽपि पृथगेवोत्सर्जनं भवति । एवमुपाकर्मापि । प्राचीमित्यतः पूर्वं ग्रामादिति शेषः । गत्वेति परित्यज्योपनिष्क्रम्येति वचनादेवं ज्ञायते ग्रामान्निर्गमन एव प्राच्या उदीच्या वा दिशो नियमो न गमन इति । यत्र यस्मिन्देशे सुखा निर्मलाः सुखस्पर्शाश्च सुखावगाहा ग्राहादिरहितत्वेन सुखेनावगाह्यास्तत्रावगाह्य निमज्ज्य स्नात्वेतियावत् । अत्र पूर्वं भस्मगोमयमृत्तिकास्नानाख्यं कर्म, हिरण्यशृङ्गमिति तीर्थेशप्रार्थनं, नमोऽग्नयेऽप्सुमत इति देवतानमनं, सुमित्रा न इति मार्जनं, दुर्मित्रा इत्यादिभिस्त्रिभिर्मन्त्रैर्द्वेष्यदिशि जलक्षेपणं, यदपां क्रूरमिति जलदोषदूरीकरणम्, अत्याशनादित्येतन्मन्त्रपठनम्, इमं मे गङ्ग इति नदीप्रार्थनं च कार्यम् । ऋतं च सत्यं चेत्येतत्तृचात्मकं सूक्तमाघमर्पणं तेन त्रीन्प्राणायामान्कुर्यात् । निमज्ज्येत्यत्रत्यक्त्वाप्रत्ययेन निमग्नः सन्नेव प्राणायामान्कुर्यादिति बोध्यते । आघमर्षणसूक्तपाठप्राणायामयोः समानकालिकत्वमेवात्र न तु सूक्तान्ते प्राणायामः । निमग्नस्य प्रा[१]णयमनं विना तत्पाठासंभवात् । अयं च सूक्तपाठो मनसैव न तूपांशु यजुर्वेदेन क्रियत इतिपरिभाषाप्राप्तमुपांशुत्वं संभवति । तत्राप्युच्चारणस्य सत्त्वेन तदसंभवात् । करणवदशब्दममनःप्रयोगमुपांश्विति ह्युपांशुलक्षणम् । अवगाह्याऽऽघमर्षणेन त्रीन्प्राणायामान्कृत्वेत्येतत्सूत्रम् ।

"अवगाह्य जले मग्नं ऋतं चेति तृचं पठन् ।
मनसा प्राणमायच्छत्त्रिवारमिदमीरितम्" ॥

 इति स्मृतिवचनानुरोधादित्थं व्याख्यातम् । अथवाऽऽघमर्षणं सूक्तं जले घ्राणं नियोज्य पठित्वा तदन्ते प्राणायाम इति यथाश्रुत एवार्थः ।


  1. च. प्राणायामं ।