पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उत्सर्जनम्]
११६५
संस्काररत्नमाला ।

तथा च स्मृतिः--

"संयोज्य वारिणि घ्राणमृतं चेति तृचेन तु ।
त्रिरावृत्तेन त्रीन्कुर्यात्प्राणायामान्सदा बुधः" इति ।

 अस्मिन्कल्प उपांशुधर्मेण ऋतमिति तृचं पठित्वा तदन्ते प्राणायामः कार्यः । एवमन्यौ द्वौ प्राणायामौ, इति प्रयोगः । पूर्वकल्पे तु निमग्नः सन्नेव मनसा ऋतमिति तृचं पठन्प्राणायामं कुर्यात् । एवमन्यौ द्वौ, इति प्रयोगः । उभयकल्पेऽपि अत्राऽऽतमितोरितिवचनाभावान्न यावद्बलत्वनियमः । त्रिः प्राणमायच्छेदित्येव वक्तव्ये त्रीन्प्राणायामानित्येवं वचनं त्रिष्वपि मन्त्रवत्ता, न तु सकृन्मन्त्रेण द्विस्तूष्णीमितिज्ञापनार्थम् । त्रीनितिवचनं चतुरादिसंख्यानिवृत्त्यर्थम् । स्मृतित एव सपवित्रपाणित्वे सिद्धेऽत्र वचनं पूर्वधृतपवित्रत्यागं द्योतयति । चकारः शास्त्रान्तरोक्तद्रुपदामन्त्रसमुच्चयार्थः । यत्पृथिव्या रजस्वे(जः स्वमि) त्यादिमन्त्रसाध्यानां मार्जनोत्तरकर्मणामप्यत्र संग्रहः । सपवित्रपाणय इत्येवं वक्तव्ये सपवित्रैः पाणिभिरित्येवं वचनं केवलं सोदकैः पाणिभिरेव मार्जनं न तु दर्भैरित्येवमर्थम् । स्नात्वेत्यस्य मार्जयित्वेत्यर्थः । तथा च स्मृतिः--"स्नात्वा त्रिः प्राणमायच्छेदब्लिङ्गैर्मार्जनं ततः" इति ।

 एवं स्नानं कृत्वा देवर्षिपितृपूजनं कुर्यात् । तत्र सूत्रम्-- 'दर्भानन्योन्यस्मै संप्रयच्छन्तोऽदित्सन्त इवान्योन्यम्' इत्यादि 'अमुष्मै नमोऽमुष्मै नमः' इत्यन्तम् । दर्भानन्योन्यस्मै संप्रयच्छन्त इत्यस्याऽऽसनानि कल्पयन्तीत्यत्रान्वयः । तेनाऽऽसनार्थमिदं दर्भदानम् । संप्रयच्छन्त इति शतृप्रत्ययाद्दानासनकल्पनयोः समकालिकता । अन्योन्यस्मै परस्परमित्यर्थः । अदित्सन्त इवान्योन्यमिति दाने विशेषोऽयमदृष्टार्थं विधीयते । अन्योन्यं परस्परमदित्सन्त इव दातुमनिच्छन्त इव दर्भान्संप्रयच्छन्त इत्यर्थः । अथवा संप्रयच्छन्त आदित्सन्त इवान्योन्यमिति पाठः । अन्योन्यं प्रत्यादित्सन्तो मुष्णन्त इव दर्भान्संप्रयच्छन्त इत्यर्थः । दर्भदानासनकल्पनयोर्मध्ये दर्भदानं सव्यहस्तेन तस्यामुख्यत्वात् । आसनकल्पनं तु मुख्यं कार्यं मुख्येन दक्षिणहस्तेन । एवं चोभयोर्न समानकालिकत्वासंभवः । दर्भदानस्य प्रयोजनाकाङ्क्षायामनन्तरविहितासनकल्पनार्थत्वे सामर्थ्यादवगते सति अर्थादासनकल्पनस्य मुख्यत्वं सिध्यति । दक्षिणहस्तस्य मुख्यत्वं तु--

"यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः"

 इति च्छन्दोगपरिशिष्टात्, 'एकाङ्गवचने दक्षिणं प्रतीयादनादेशे' इत्याश्वलायनसूत्राच्च ज्ञेयम् । तत इत्यस्य तस्मिन्नित्यर्थः । समीपसप्तमीयम् । तच्च