पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११५१
संस्काररत्नमाला ।

 तैरेवोद्धृत्य होतव्यमग्नये स्वाहा सोमाय स्वाहा । इरावती इदं विष्णुर्विष्णोर्नुकं मा नस्तोके च गायत्री ब्रह्म अज्ञानमिति तस्य चतुर्भाग हुत्वा प्रणवेनाऽऽलोड्य प्रणवेनाभिमन्त्र्य प्रणवेन पिबेत्प्रणवेन तु--

ब्रह्मणा निर्मितो ह्येष स[१]त्यशौचात्मको विधिः ।
ऋषिभिर्बालखिल्यानां शौचार्थं समुदाहृतः ॥

 मासि मासि प्रयुञ्जानो विरजा भवत्यर्धमासेऽर्धमासे प्रयुञ्जान ऋषिलोकमवाप्नोति षड्रात्रे षड्रात्रे स्वर्गलोकमवाप्नोति संवत्सरमहरहः परं ब्रह्माधिगच्छति ।

त्वगस्थिगतैर्मलिनैर्देहैस्तिष्ठति मानवः ।
ब्रह्मकूर्चो दहेत्तस्य यथा अग्निरिवेन्धनम्" इति ॥

 ([२] आपो हि ष्ठेतिमन्थेदित्यन्तं पालाशं पद्मपत्रं वेत्येतत्पूर्वं ज्ञेयं, पाठक्रमादर्थक्रमस्य बलीयस्त्वात् । प्रकरणात्प्राशनार्थपञ्चगव्य एव गायत्र्या गृह्य गोमूत्रमित्यादिविधिः स्यात्, प्रोक्षणार्थे पञ्चगव्ये न स्यात्तन्मा भूत् । तत्रापि मन्थेदित्यन्तो विधिर्यथा स्पादित्येतदर्थं क्रमपरित्याग इति द्रष्टव्यम् ।)

 यद्यप्यमरेण--

 "कृष्णे नीलासितश्यामकालश्यामलमेचकाः" इति कृष्णनीलयोरभेद उक्तस्तथाऽपि नीलशब्देन हरिद्वर्णमिश्रितः कृष्णवर्णो ग्राह्यः । सूत्रकृद्वचनलब्धभेदबलात् ।

"दशार्थगुञ्जं प्रवदन्ति माषं माषैस्तथा षोडशभिश्च कर्षम् ।
कर्षैश्चतुर्भिश्च पलं तुलाज्ञाः कर्षं सुवर्णस्य सुवर्णसंज्ञम्"

 इति लीलावतीवाक्याच्चतुःषष्टिमाषात्मकं पलं ज्ञेयम् ।

 कपिलास्वरूपं हेमाद्रौ--

"सुवर्णकपिला पूर्वा द्वितीया गौरपिङ्गला ।
तृतीया चैव रक्ताक्षी चतुर्थी गुडपिङ्गला ।
पञ्चमी बहुवर्णा स्यात्षष्ठी च श्वेतपिङ्गला ।
सप्तमी श्वेतपिङ्गाक्षी अष्टमी कृष्णपिङ्गला ।
नवमी पाटला ज्ञेया दशमी पुच्छपाटला" इति ।

 सुवर्णा सुवर्णवर्णा ।

 स्मृत्यन्तरे--"एकवर्णा तु कपिला" इत्यपि कपिलालक्षणमुक्तम् ।


  1. ग. सत्यः शौ ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति ।