पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५२
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

'कांस्यपात्रस्थितविलीनघृतसमानवर्णा कपिला' इत्यपि कुत्रचित् । [१] अक्षता अखण्डिताः संयुताः सम्यगेकीभूता मि[२]लिता इति यावत्[३] । त्वगस्थिगतैर्मलिनैर्देहैर्मलयुक्तैरिति शेषः(?) । उपाकर्म यदि सशिष्यः करोति तदा लौकिकाग्नौ । यद्यशिष्यस्तदौपासने । यद्यपि सूत्रेऽन्वारम्भविधानं स्पष्टं नास्ति तथाऽपि ज्ञापकसिद्धं विधानमस्त्येव । तच्च हुत्वेति वचनम् । तथा च मातृदत्तः-- "होमाधिकारे पुनर्हुत्वेति वचनमध्येतॄणां सर्वेषां होमेऽस्त्यधिकार इतिज्ञापनार्थं तेनोक्तमन्वारम्भणं सर्वेषां शिष्याणामिति । गृह्यसूत्रे--अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा[४] काण्डर्षीञ्जुहोति काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेद, सामवेदमथर्ववेद सदसस्पतिमिति हुत्वा त्रीनादितोऽनुवाकानधीयन्ते (ते) काण्डादीन्वा सर्वाञ्जयादि प्रतिपद्यते स्विष्टकृदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति" इति ।

 अग्निमुपसमाधाय शिष्यैरन्वारब्धो व्याहृतिपर्यन्तं कृत्वा नव षट्पञ्च चतुरो वा काण्डर्षीञ्जुहोति । व्याख्याताः काण्डर्षयः प्रजापतये काण्डर्षये स्वाहेत्यादि स्वयंभुवे काण्डर्षये स्वाहेति काण्डर्षय इत्यन्तं सूत्रं क्षेपकं ज्ञेयमसंगतत्वाद्भाष्यकृताऽधृतत्वाच्च । काण्डनामान्यपि नव षट्पञ्च चत्वारि वा प्राजापत्यं सौम्यमाग्नेयं वैश्वदेवमिति चत्वारि । पञ्चपक्षे स्वायंभुवं पञ्चमम् । षट्पक्ष आरुणं षष्ठम् । नवपक्षे सांहितीदेवतोपनिषदादित्रयं च । सावित्र्यादिपदैः सर्वैश्चतुर्थ्यन्तैर्होमः । सदसस्पतिमित्यत्रेतिकरणात्काण्डोपाकरणविसर्गयोश्च दर्शनात् । सदसस्पतिमद्भुतमित्येतस्य प्रतीकग्रहणं वा । सावित्रीमित्यत्राप्येकामृचं केचिन्मन्यन्ते । अधीयन्त(त) इति बहुवचनात्सर्वेषामध्ययनम् । आदित इत्यत्र वेदस्येति शेषः । काण्डानि नव षट्पञ्च चत्वारि वा काण्डानुक्रमणिकोक्तानि । तेषामादिभूताननुवाकान्मन्त्रान्वाऽधीयन्त(त) इत्यर्थः । जयादि प्रतिपद्यत इति वचनं जयाद्युपहो[५]मा अत्र नित्या इतिबोधनार्थम् । जयो[६] जयोपहोम आदिर्यस्य तज्जयादि । एतादृशं होमसंबन्धि यदुत्तरं तन्त्रं तत्प्रतिपद्यत इत्यर्थः । अस्मिन्व्याख्याने सन्त्येव वारुण्यादयः । जयादीन्प्रतिपद्यत इतिपाठे तु वारुण्यादिसत्त्वं सुगममेव । प्रतिपद्यत इत्युभयत्र संबध्यते । तथा च जयादि प्रतिपद्यते स्विष्ट


  1. इदं पदद्वयं नास्ति ङ. पुस्तके ।
  2. क. ङ. मीलिता ।
  3. ङ. त् । उ ।
  4. च. त्वा पञ्च का ।
  5. ङ. होमप्रापणार्थं ।
  6. ङ. च. योप ।