पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आग्रहायणीप्रयोगः]
११४१
संस्काररत्नमाला ।

"पौर्णमासी पूरयन्त्यायान्त्यपरापरान् ।
मासार्धमासान्विभजन्ती सा नः पूर्णाऽभिरक्षतु स्वाहा" पौर्णमास्या इदं० ।

 नात्र वारुण्यादिहोमः ।

 स्विष्टमग्न इत्यस्याग्निर्ज्योतिष्मांस्त्रिष्टुप् । स्विष्टकृद्धोमे विनियोगः-- 'स्विष्टमग्ने अभि० जरं न आयुः स्वाहा' इति स्विष्टकृद्धर्मेण जुहोति । अग्नये ज्योतिष्मत इदं० ।

 ततः शुल्बप्रहरणादिपूर्णपात्रदानान्तं कुर्यात् ।

 ततः पाणी प्रक्षाल्य प्रतिक्षत्र इत्यस्य विश्वे देवा भूमिर्यजुः । भूम्यालम्भने विनियोगः । 'प्रतिक्षत्रे प्रतितिष्ठा० प्रत्यङ्गेषु प्र० देवैरवन्तु मा' इति भूमिमालभते ।

 ततोऽपरेणाग्निं दक्षिणा गृहपतिरुपविशति । तदुत्तरतो भार्या तदुत्तरतो ज्येष्ठक्रमेण पुत्रपौत्रादयस्तद्भार्या अप्रत्तदुहितरश्च । स्योना पृथिवीत्यस्य[१] स्वयंभूर्भूमिर्गायत्री । बडित्थेत्यस्य विश्वे देवा भूमिरनुष्टुप् । संवेशने विनियोगः । 'स्योना पृथि० सप्रथाः' 'वडित्था पर्वतानां० महिनि' इति द्वाभ्यां तत्र स्थिता एव गृहपतिप्रमुखाः सर्वे दक्षि[२]णपा[३]र्श्वे प्राक्शिरस उदङ्मुखाः [४]संविशन्ति । उदायुपेत्यस्य सोमः सोमोऽनुष्टुप् । उत्थाने विनियोगः । 'उदायुषा० ममृता अनु' इत्युत्तिष्ठेयुः । उदस्थाममृता अभूमेत्युत्थाय जपेयुः ।

 तत आचम्य पुनःसंवेशनादि द्विवारं कुर्युः । अनुपनीतानां स्त्रीणां च तूष्णीमेव संवेशनादि । तेषां ये मन्त्रविद इति वचनात् । ततो भोजनार्थेनान्नेन त्रिवृदन्नहोमं कृत्वा ब्राह्मणानन्नेन परिविष्य पुण्याहादि वाचयित्वा तस्मिन्नेव प्रदेश एतां रात्रिं वसन्ति ।

 ततो ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं स्मरेत् । इत्याग्रहायणीकर्म ।

 श्रवणाकर्माग्रहायणीकर्मणोरकरणे प्रायश्चित्तमाह प्रजापतिः--

"हविर्यज्ञेष्वशक्तस्य लुप्तमप्येकमादितः ॥
प्राजापत्येन शुध्येत पाकसंस्थासु चैव हि" इदं च मत्या लोपे ।

अमत्या तु--

"अकृत्वाऽन्यतमं यज्ञं यज्ञानामधिकारतः ।
उपवासेन शुध्येत पाकसंस्थासु चैव हि" इतिवचनादुपवासः ।


  1. क. च. स्य याज्ञिक्यो देवता (?) उपनिषदो भूमि ।
  2. च. क्षिणा पा ।
  3. ङ. पार्श्वैः प्रा ।
  4. एतदुपरि क. पुस्तकटिप्पण्याम्--"शयनं कुर्युरित्यर्थः" इत्यस्ति ।