पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४२
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 ([१] श्रवणाकर्मादीनामभ्यासपक्षे द्वितीयादिप्रयोगः पत्न्यामृतुमत्यामपि भवत्येवेति प्रायश्चित्तप्रकाशे । )

इति संस्काररत्नमालायां पद्धतावाग्रहायणीप्रयोगः ॥ इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे एकादशं प्रकरणम् ॥ ११ ॥

अथ द्वादशं प्रकरणम्

अथोपाकरणम् ।

 तत्र गृह्यम्--

"अथात उपाकरणोत्सर्जने व्याख्यास्यामः श्रवणापक्ष ओषधीषु
जातासु हस्तेन पौर्णमास्यां वाऽध्यायोपाकर्म" इति ।

 अत्राथशब्दः पूर्वेण कर्मणा तुल्यत्वज्ञापनार्थः । यथाऽऽग्रहायणी नित्या तथैते नित्ये इति । तेन कदाचिद्वर्षर्तौ सर्वथौषधिजननाभावस्तदाऽपि कर्तव्यमिति सिद्धं भवति । 'एतद्वार्षिकमित्याचक्षते' इत्याश्वलायनसूत्रसंवादात् ।

"ओषधीनां प्रादुर्भावे श्रावणस्य पौर्णमास्यां हस्तेन वाऽध्यायमुपाकुर्याद्यदि प्रादुर्भावः प्रोष्ठपदे तदा प्रौष्ठपद्यां तत्राप्रादुर्भावे प्रौष्ठपदीं नैवातीयाद्वर्षाकर्म ह्येतदित्याचक्षते"

 इति खादिरादिसूत्रसंवादाचायमर्थो लभ्यते । खादिरसूत्रसंवादादाश्वलायनसूत्रे वर्षासु भवं वार्षिकमित्येव वार्षिकशब्दार्थो द्रष्टव्यः ।

 अथशब्दस्याऽऽनन्तर्यार्थत्वे--आनन्तर्यस्य पाठादेव सिद्धत्वाद्वैयर्थ्यापत्तिरतोऽत्र सोऽर्थो न विवक्षितः ।

 अतःशब्दो हेत्वर्थे, यत उपाकरणोत्सर्जने वेदशुद्धिसंपादके अकरणे दोषश्रवणान्नित्ये चात इत्यर्थः । अत्र प्रमाणमग्रे वक्ष्यते । अभ्यर्हितत्वादुपाकरणशब्दस्य पूर्वनिपातः । युगपत्प्रतिज्ञानमुभयोः संयुक्तत्वख्यापनार्थं, तेनासंभवादकृत उपाकरण उत्सर्गस्याप्यभावः । पारायण उत्सर्गस्य भावादुपाकरण


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके