पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[श्रवणाकर्मप्रयोगः]
११३७
संस्काररत्नमाला ।

वानामधिपतय इदं० । पूर्ववदुपस्तीर्यावदायाभिघार्य-- 'नमो वायवे वि[१]भूमत आन्तरि[२]क्ष्याणामधिपतये स्वाहा' वायवे विभूमत आन्तरि[३]क्ष्याणामधिपतय इदं० । पूर्ववदुपस्तीर्यावदायाभिधार्य-- 'नमः सूर्याय रोहिताय दिव्यानामधिपतये स्वाहा' सूर्याय रोहिताय दिव्यानामधिपतय इदं० । पूर्ववदुपस्तीर्यावदायाभिघार्य-- 'नमो विष्णवे गौराय दिश्यानामधिपतये स्वाहा' विष्णवे गौराय दिश्यानामधिपतय इदं० । इत्याहुतिचतुष्टयं हुत्वा पलाशपुष्पाण्यसंस्कृताज्येन सं[४]युत्य--'जग्धो मशको जग्धा विचष्टिर्जग्धो व्यध्वरः स्वाहा' अग्नय इदं० । 'जग्धो व्यध्वरो जग्धा विचष्टिर्जग्धो मशकः स्वाहा' अग्नय इदं० । 'जग्धा विचष्टिर्जग्धो मशको जग्धो व्यध्वरः स्वाहा' अग्नय इदं० । इत्याहुतित्रयं जुहुयात् । सर्पा अत्र देवतेति केचित् । इन्द्र इत्यन्ये । प्रजापतिरित्यपरे । अग्नय इदमित्येव युक्तम् ।

 ततः परिस्तरणानि विसृजेत् । यद्येतदर्थमेव परिस्तरणं भवेत् । तत उत्तरपरिषेकं कृत्वा हुतशेषं धानादिकमुदकुम्भं दर्भमुष्टिं चाऽऽदाय होमदेशात्प्राचीं दिशमुपनिष्क्रम्य गृह एव शुद्धे देशे बलिदानपर्याप्तं स्थलं संमृज्याभ्युक्ष्य प्रागग्रान्दर्भांस्तत्राऽऽस्तीर्य तेषु धानाद्यन्नत्रयं लौकिकाज्यमिश्रितं कृत्वा ते[५]न सर्पेभ्यश्चतुरो बलीन्हरति । 'ये पार्थिवाः सर्पास्तेभ्य इमं बलि हरामि' इति प्रथमः । 'य आन्तरि[६]क्ष्याः सर्पास्तेभ्य इमं बलि हरामि' इति द्वितीयः । ये दिव्याः सर्पास्तेभ्य इमं बलि हरामि' इति तृतीयः । 'ये दिश्याः सर्पास्तेभ्य इमं बलि हरामि' इति चतुर्थः । इति बलीन्दत्त्वा सकृदन्ते परिषेकं कुर्यात् ।

 ततो बलिष्वाञ्जनाभ्यञ्जने दत्त्वा--नमो अस्तु सर्पेभ्य इति त्रयाणामग्निः सर्पा अनुष्टुप्, बल्युपस्थाने विनियोगः । 'नमो अस्तु सर्पेभ्यो० येऽदो रोचने० या इषवो०' इति सर्वान्बलीनुपतिष्ठते । तत उदकुम्भमादाय-- 'अपश्वेतपदा ज[७]हि पूर्वेण चापरेण च सप्त च मानुषीरिमास्तिस्रश्च राज[८]बान्धवैर्न वै श्वेतस्याभ्याचारेणाहिर्जघान कंचन श्वेताय वै द[९]र्वाय नमो नमः श्वेताय वै द[१०]र्वाय' इति सकृन्मन्त्रमुक्त्वा त्रिः प्रदक्षिणं स्वगृहं परिषिञ्चन्परिक्रामेत् ।

 स्वसमीप एतावन्तं देशं सर्पा ना[११]पक्रामेयुरिति यः कामयेत स तावन्तं देशमपि परिक्रामेत् ।


१४३
 
  1. ङ. विभुम ।
  2. ङ. रिक्षाणा ।
  3. ङ. च. रिक्षाणा ।
  4. च. संयुज्य ।
  5. च. तेभ्यः ।
  6. ङ. च. रिक्षाः स ।
  7. क. जहिः पू ।
  8. ङ. जबन्धनैर्न ।
  9. च. दर्भाय ।
  10. च. दर्भाय ।
  11. ङ. नाऽऽक्रा ।