अथ दिश उपतिष्ठते । सर्पबलिस्थानस्य पुरस्तात्प्रत्यङ्मुखः स्थित्वा समीचीनामासीत्यादिषण्मन्त्राणामग्निर्दिशो यजुः । दिगुपस्थाने विनियोगः । 'समीची नामासि० ते वां जम्भे दधामि' इति प्राचीं दिशमुपतिष्ठते ॥
ततो दक्षिणत उदङ्मुखः स्थित्वा--'ओजस्विनी नामासि० दाकू र०' इति दक्षिणां दिशमुपतिष्ठते ।
ततः पश्चात्प्राङ्मुखः स्थित्वा--'प्राची नामा० स्वजो र०' इति प्र[१]तीचीं दिशमुपतिष्ठते ।
तत उत्तरतो दक्षिणामुखः स्थित्वा--'अवस्थावा ना० श्च राजी र०' इत्युत्तरां दिशमुपतिष्ठते ।
ततः प्रतिनिवृत्य पश्चादूर्ध्वमुखः स्थित्वा--'अधिपत्नी ना० श्वित्रो र०' इत्यूर्ध्वां दिशमुपतिष्ठते । तत्रैवाधोमुखः स्थित्वा-- 'वशिनी ना०' इत्यधरां दिशमुपतिष्ठते ।
अत ऊर्ध्वं प्रत्यहमेतेनैव विधिनैतान्बलीन्हरति । अस्मिन्द्वितीयादिबलिहरणे नाऽऽज्यहोमकिंशुकहोमौ, न च परिषेचनम् । मार्गशीर्ष्यां चतुर्दश्यामन्तिमं बलिहरणम् ।
अथवा यस्मिन्नह्नि प्रत्यवरोहणं तस्मादर्वाचीनानि दिनानि वारगणनया गणयित्वा तावतस्तन्त्रेण श्रवणाकर्मदिन एव बलीन्हरेत् ।
उभयकल्पेऽप्यन्तिमे बलिहरणे 'ये पार्थिवाः' इत्यादिषु चतुर्षु मन्त्रेषु हरामीत्येतस्य स्थाने निरवदास्यन्नित्यूहः ।
निरवदास्यन्नित्येतावानेव मन्त्र इति केचित् । अस्मिन्मते चतुर्वारं मन्त्रस्याऽऽवृत्तिर्द्रष्टव्या ।
बलेर्बलिदातुश्चान्तरा केनापि व्यवधानं न कार्यमोपस्थानात् । ततः प्रत्येत्य हस्तपादप्रक्षालनं कृत्वाऽऽचम्य ब्राह्मणान्संभोज्य विष्णुं स्मरेत् ।
अत्र प्रमादादिनैकस्मिन्दिने बलिदानाकरणे प्रातर्होमोत्तरं बलिदानाकरणजन्यदोषपरिहारार्थं सर्वप्रायश्चित्तहोमपूर्वकं [२]पादकृच्छ्रप्रत्याम्नायभूतं यथाशक्ति द्रव्यदानं करिष्य इति संकल्प्य लौकिकाग्नावापूर्विकतन्त्रेण 'त्वं नः' 'स त्वं नः'