पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अष्टकाश्राद्धप्रयोगः]
११३३
संस्काररत्नमाला ।
( अन्वष्टकाश्राद्धप्रयोगः )
 

 ततः--"अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः" इति सर्पिर्मिश्रेणान्नेन स्विष्टकृद्धर्मेण जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं० ।

 ततो यज्ञोपवीती शुल्बप्रहरणादि पूर्णपात्रदानान्तं कृत्वा हुतशेषं परिविष्यान्नाभिमर्शनादि कुर्यात् ।

 दक्षिणाकालेऽन्नं धनं वा दद्यात् । अन्नधनदाने त्वत्रानियते इति वचनान्नात्रान्नधनदानयोरेव दानमिति नियमः । तेन वस्त्रादिदानमप्यत्रानुमतं भवति । अष्टकायां पुनरायात नो गृहानित्यूहेनोदपात्रोपप्रवर्तनं नेति मातृदत्तवैजयन्तीकारौ । शेषं मासिक[१]श्राद्धवत् । अन्ते तर्पणम् । अत्र कामकालौ विश्वे देवाः । 'इष्टिश्राद्धे क्रतुर्द(द?)क्षावष्टम्यां कामकालकौ' इति प्रयोगपारिजातेशङ्कोक्तेः ।

 द्वितीयादिषु तिसृष्वष्टकामु द्रव्यविधिर्हेमाद्रौ वायुपुराणे--

"आद्याऽपूपैः सदा कार्या मांसैरन्या भवेत्सदा ।
शाकैरन्या तृतीया स्यादेष द्रव्यगतो विधिः" इति ॥

 तत्रैव ब्राह्मे तु--शाकमांसापूपात्मकानि द्रव्याणि तिसृष्वेतासु विधाय भाद्रगतायामष्टकायां शाकविधिरुक्तः ।

अत्र हेमाद्रिः--

"शाकादिशब्दाः सर्वस्यापि भोज्यस्य तत्तद्द्रव्यप्रधानत्वप्रतिपादनपराः, न तु द्रव्यान्तरनिवृत्तिपराः" इति ॥

 अतश्च तीर्थयात्राङ्गश्राद्ध इदं घृतं सोपस्करमितिवदिमेऽपूपाः सोपस्करा इदं शाकं सोपस्करमित्येवं त्यागवच्च ऊह्यम् । श्राद्धे मांसस्य कलिवर्ज्यत्वात्तत्स्थाने माषान्नं देयम् । इदं माषान्नं सोपस्करमित्येवं संकल्प इति द्रष्टव्यम् । 'पितरो यत्र पूज्यन्ते' इति वचनात् 'शेषं षाट्पौरुषं विदुः' इतिविष्णुधर्माच्च मातामहपार्वणप्राप्तिः । न चैवं सांवत्सरिकादावपि मातामहपार्वणप्राप्तिरास्तामिति वाच्यम् ।

"कर्षूसमन्वितं मुक्त्वा तथा श्राद्धानि षोडश ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः"

 इति वचनेन तन्निवारणात् । इत्यष्टकाश्राद्धम् ।

अथान्वष्टकाश्राद्धम् ।

"महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च ।
नवदैवतमत्रेष्टम्"


  1. ङ. च. कव ।