पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११३४
[अन्वष्टकाश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 इतिवचनान्मातृपार्वणमप्यत्र । कर्ता पितृपितामहप्रपितामहानाममुशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणाम् , मातृपितामहीप्रपितामहीनाममुकदानाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणाम्, मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां तृप्त्यर्थमन्नेन हविषाऽन्वष्टकाश्राद्धं करिष्य इति संकल्पः । निमन्त्रणादि सर्वं मासिकवत् । अन्वाधानेऽन्वष्टकाश्राद्धहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्राचीनावीती प्रधानहोमे-- पितॄ[१]न्द्वाभ्यामन्नाहुतिभ्यां यक्ष्ये । अग्निं कव्यवाहनं स्विष्टकृतम[२]न्नाहुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीती प्रायश्चितहोमे--अग्निं[३] तिसृभिराज्याहुतिभिरित्याद्याज्यभागान्तं कुर्यात् ।

 ततः पित्रादीनावाह्यान्वष्टकायामिमामूर्जमित्यूहेनापां प्रसेकः कार्य एव । नेति मातृदत्तवैजयन्तीकारौ ।

 व्याहृतिहोमान्ते प्राचीनावीती देवपवित्रसंस्कृतादन्नादवदानधर्मेणावदा[४]यावदाय जुहोति 'त्वमग्ने अया० भेषज स्वधा नमः' पितृभ्य इदं० । 'प्रजापते न त्वदेता० रयीणा स्वधा नमः' पितृभ्य इदं० । इत्याहुतिद्वयं जुहुयात् ।

 अत्रैन्द्रीन्यायेन पितॄणां देवतात्वं द्रष्टव्यम् ।

 स्वाहाकारेण दानपक्षे न प्राचीनावीतं नापि च पितॄणां देवतात्वमिति ज्ञेयम् । आन्वष्टक्ये स्वधानमस्कारप्रदानतान्नधनदानयोरनियतत्वं सिद्धं भवतीति भाष्यग्रन्थादिदं लभ्यते ।

 प्राकृताहुतीनां पूर्ववद्विकल्पः । करणपक्ष आवृत्तिद्वयम्[५] । यन्मे मातेत्यादिमन्त्रत्रय[६]स्य मातृपार्वणपरत्वासंभवान्नैतन्मन्त्रत्रयेण होमः किंतु नामभिरेव । 'अमन्त्रास्वमुष्मै स्वाहा' इतिवचनात् । यन्मे मातेत्यादिमन्त्रत्रयस्यात्रासंभवेनामन्त्रत्व आहुतित्रयस्य सिद्धे 'अमन्त्रास्वमुष्मै स्वाहा' इति परिभाषायाः प्रवृत्तिः ।

 ततः 'अग्नये क० कृते स्वधा नमः' इत्यन्नेनैव स्विष्टकृद्धर्मेण स्विष्टकृतं जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं० ।

 प्रधानहोमे स्वाहाकारपक्षे यज्ञोपवीती-- 'अग्नये स्विष्टकृते स्वाहा' इत्येवं स्विष्टकृद्धोमः कार्यः ।


  1. ङ. तॄन्द्विरन्नेन य । च. तॄनन्नाहु ।
  2. ङ. मन्नेन य ।
  3. ङ. ग्निं त्रिरि ।
  4. ङ. दाय ।
  5. च. म् । तन्मे ।
  6. च. यस्यान्नासंभवेन ।