पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वृद्धिश्राद्धप्रयोगः]
१११९
संस्काररत्नमाला ।

द्विर्द्विरेव । पुष्पाणि मालतीशतपत्रीमल्लिकाकुब्जकेतकीपाटलानि । मालाश्चैतेषामेव पुष्पाणामिति ।

 ततश्चतुरश्राण्येव सर्वाणि मण्डलानि विधाय तेषु सर्वेष्वपि सौवर्णान्येव सर्वाणि भोजनपात्राणि[१], अलाभे मधुकपलाशग्राम्यकदल्याद्यन्यतमपात्राणि संस्थाप्य सर्वपात्राणां[२] परितो बृहत्सामेति प्रदक्षिणमेव भस्ममर्यादां कृत्वा करशुद्धिं च विधायाऽऽसादितेषु पात्रेषूपस्तीर्य होमार्थान्नोद्धरणार्थं पात्रमुपस्तीर्य गृहीत्वा, उद्धरिष्याम्यग्नौ च करिष्यामीति ब्राह्मणानामन्त्रयते । काममुद्ध्रियतां काममग्नौ च क्रियतामिति विप्रा अनुज्ञां दद्युः ।

 ततः कर्ता तूष्णीमेवा[३]पां मेध्यमितिमन्त्रेण वाऽमूलमेव महद्बर्हिराच्छिद्य तूष्णीं परिस्तरणार्थानमूलानेव दर्भानाच्छिद्योभयं बद्ध्वाऽनधो निदधाति । त[४]तो दक्षिणाग्निमौपासनाग्निं वा तदभावेऽयाश्चेत्यादिविधिनोत्पादितमग्निं प्रागुदगग्रैर्दर्भैः प्रदक्षिणमेव परिस्तीर्य तूष्णीमेव प्रदक्षिणं परिषिच्य पिण्डदानार्थं पृषदाज्यं निष्पाद्य सुरक्षितं निदध्यात् ।

 दधनि तदर्धमाज्यमानीय तदालोडयेत्तत्पृषदाज्यं भवति । अत्रासंस्कृतमेवाऽऽज्यम् ।

 तत उत्पूतेन नवनीतेनानुत्पूतेनाऽऽज्येन वाऽभिघार्योद्वास्याग्नेः पश्चान्निधाय दक्षिणं जान्वाच्य मेक्षणेनोद्धृतान्नैकदेशमुपहत्य सोमाय पितृपीताय स्वाहेति प्रथमाहुतिं जुहोति । सोमाय पितृपीतायेदं० । पुनरुपहत्य यमायाङ्गिरस्वते पितृमते स्वाहेति तृतीयाहुत्यर्थं कानिचित्सिक्थान्यवशेष्य द्वितीयामाहुतिं जुहोति । यमायाङ्गिरस्वते पितृमत इदं० । अग्नये कव्यवाहनाय स्विष्टकृते स्वाहेति यानि मेक्षणे द्वितीयाहुत्यवशेषितानि सिक्थानि तैस्तृतीयामाहुतिं जुहोति । अग्नये कव्यवाहनाय स्त्रिष्टकृत इदं । ततस्तूष्णीं मेक्षणमनुप्रहरति ।

 ततः पात्रेषु मधुरद्रव्यसहितम[५]नम्लद्रव्यव्यञ्जनसहितमन्नं परिविष्य हुतावशिष्टं किंचित्पितृपात्रेषु परिविष्य देवेभ्यो नैवेद्यं समर्प्य[६] सत्यं त्व० परिषिच्य पृथिवी ते पात्रमित्याद्युक्त्वा सत्यसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यो नान्दीमुखेभ्य इदमन्नं सोपस्करं स्वाहा हव्यं न ममेति[७] प्रथमदेवविप्रद्वयहस्तयोरुदकं दत्त्वा


  1. ङ. णि सं ।
  2. द्वितीयान्तपाठो युक्तः ।
  3. ङ. वामू ।
  4. ङ. तत औपा ।
  5. ङ. मम्लद्रव्यरहितं सव्यञ्जनम ।
  6. ङ. र्प्य पृ ।
  7. क. च. ति वि ।