पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११८
[वृद्धिश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

मुखाः । पितुः पितृपितामहप्रपितामहा नान्दीमुखाः । पितुर्मातामहमातुःपितामहमातुःप्रपितामहाः स[१]पत्नीका नान्दीमुखा इत्येवमुल्लेखः ।

 जीवदुभयादेस्तु पितामहस्य मातृपितामहप्रपितामह्य इत्यादि यथायथमुल्लेखः । एवं सर्वत्रोल्लेखो द्रष्टव्यः ।

 अस्मिन्नान्दीश्राद्धे सत्यसंज्ञकानां विश्वेषां देवानां नान्दीमुखानां स्थाने[२] त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति[३] ब्रूयात्, इति प्रथमदेवार्थं ब्राह्मणद्वयं निमन्त्र्य वसुसंज्ञकानां विश्वेषां देवानां नान्दीमुखानां स्थाने[४] त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति द्वितीयदेवार्थं ब्राह्मणद्वयं निम[५]न्त्रयेत् । सत्यवसुसंज्ञकानां विश्वेषां देवानां स्थान इत्येवंरीत्या वा देवस्थानीयविप्रद्वयनिमन्त्रणं कार्यम् । एवं सर्वत्र द्रष्टव्यम् । अस्मिन्नान्दीश्राद्धे मातृपितामहीप्रपितामहीनां नान्दीमुखानां स्थाने[६] त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति ब्राह्मणद्वयं निमन्त्र्य, अस्मिन्नान्दीश्राद्धे पितृपितामहप्रपितामहानां नान्दीमुखानां स्था[७]ने त्वां निमन्त्रय इति निमन्त्र्य त्वया क्षणः करणीय इति पितृवर्गार्थं ब्राह्मणद्वयम्, अस्मि० मातामहमातुःपि० हानां सपत्नीकानां नान्दीमुखानां स्थाने त्वां० इति मातामहवर्गार्थं च ब्राह्मणद्वयं निमन्त्र्य पाकसिद्ध्युत्तरं पाकः सिद्ध आगम्यतां दैवे क्षणः क्रियतामिति यथायथं यज्ञोपवीत्येव निमन्त्र्य मातः षड्घटिकानन्तरं स्नात्वाऽऽचम्य प्राणानायम्य समस्तसंपदिति ब्राह्मणान्प्रदक्षिणीकृत्येत्याद्यग्नौकरणान्तं मासि[८]श्राद्धवत्कुर्यात् । तत्र विशेषः--मासिश्राद्धशब्दस्थाने नान्दीश्राद्धशब्दः । विचरणक्षालनकाले यद्यतिथिः समागतश्चेत्तमपि चतुरश्रदेशे सर्वपितृस्थाने विनियोज्य स्वागतादिविधिना भोजयेत् । मातृपार्वणे विप्राभावे पूजनपूर्वकं स्त्रियो भोज्याः । देवपाद्यदानोत्तरं मात्रादीनामपि चतुरश्रमण्डल एव पाद्यदानम् । प्राप्नुतां भवन्तौ प्राप्नवावेति प्रश्नप्रतिवचनयोरूहः । आसन ऋजव एव दर्भाः । प्रदक्षिणमेव कुशासनम् । यवोऽसि यवयेत्यनेनैव[९] यवप्रक्षेपणम् । तत्तद्युग्माद्यविप्रकराग्रं तत्तद्द्वितीयविप्रकरे संस्थाप्य कराग्रेण पवित्राग्रं तेन तेन धारयित्वा तत्र तत्र तन्त्रेणार्घ्यं देयम् । नान्दीमुखान्पितॄनावाहयिष्य इत्यावाहनानुज्ञावाक्यम् । मध्यमयाऽङ्गुल्यैव गन्धदा[१०]नं


  1. च. पत्नीसहिता ।
  2. ङ. ने त्वया ।
  3. ङ. ति प्र ।
  4. ङ. ने त्व ।
  5. ङ. मन्त्र्य--अ
  6. ङ. ने त्व ।
  7. ङ. ने त्व ।
  8. ङ. सिकश्रा ।
  9. ङ. च. व प्र ।
  10. ङ. दानम् । पु ।