पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिकश्राद्धप्रयोगः]
१०९९
संस्काररत्नमाला ।

अत्र सर्वस्यैवार्घ्योदकस्य प्रतिपत्तिः[१] । यदि प्रथमार्घ्येऽवशेषितं भवेत्तदैतदर्घ्यदानं नान्यथा । पि[२]त्रर्घ्योदकमर्धमवशेषणीयं तस्याक्षय्योदकदाने प्रतिपत्तिरिति केचित् । तत्र मूलं मृग्यम्[३]

 ततो यज्ञोपवीत्येव सर्वविप्रहस्तेष्वक्षताः पान्त्वित्यक्षतान्दत्त्वा दक्षिणाः पान्त्विति यथाशक्ति दक्षिणां दद्यात्[४] । तत्र देवविप्राभ्यां सुवर्णं पित्र्यविप्रेभ्यो रजतम् । उभयत्र वस्त्रधान्यादिदानं समानम् ।

 ततः प्राचीनावीती-- अस्मत्पितृपितामहप्रपितामहानाममुशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां यद्दत्तं मासिकश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्विति पित्र्यविप्रदक्षिणहस्त उदकं दद्यात् । अस्त्वक्षय्यमिति विप्राः । ततो यज्ञोपवीती पुरूरवसंज्ञकानां विश्वेषां देवानामार्द्रवसंज्ञकानां विश्वेषां देवानां यद्दत्तं मासिकश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्त्विति यथायथमूहेन देवविप्रदक्षिणहस्तयोर्यवसंमिश्रमुदकं दद्यात् । अस्त्वक्षय्यमिति विप्रौ । स्वधाऽस्त्विति प्राचीनावीती कर्ता ब्रूयात् । अस्तु स्वधेति पित्र्यविप्राः प्रतिब्रूयुः । ततो यज्ञोपवीत्येव पितृविप्रान्पूर्वमुत्थाप्य देवविप्रो पश्चादुत्थापयेत् । ततस्तानद्य मे सफलं जन्मेति प्रसाद्य पादानवमर्द्य भुक्तवतो गच्छतो विप्रानासीमान्तमष्टौ पदानि वाऽनुव्रज्य शेषमन्नमनुज्ञाप्य विप्रान्प्रदक्षिणीकृत्य प्रत्येत्योदकुम्भं दर्भमुष्टिमञ्जनादिसामग्रीं चाऽऽदायौपासनाग्नेर्दक्षिणपूर्वमवान्तरदेशं गत्वा तत्र प्राचीनावीती दक्षिणाग्रान्दर्भानास्तीर्य तेष्ववाचीनपाणिर्दक्षिणापवर्गं त्रिभिर्मन्त्रैस्त्रीनुदकाञ्जलीन्निनयति । 'मार्जयन्तां पितरः सोम्यासः' इति प्रथमम्, 'मार्जयन्तां पितामहाः सोम्यासः' इति द्वितीयम्, 'मार्जयन्तां प्रपितामहाः सोम्यासः' इति तृतीयम् । असाववनेनिङ्क्ष्वेति मन्त्रेण वा । प्रतिपिण्डं तत्तन्नामोहेन मन्त्रावृत्तिः । असावित्यत्र शर्मान्तं संबुद्ध्या पित्रादिनाम ग्राह्यम् । चतुर्थपिण्डदानपक्षे तदर्थमपि तृतीयपिण्डस्य पुरोभागे तूष्णीं निनयनम् । एवं मातामहादीनाम् । ततो निनयनस्थलेषु पिण्डार्थं स्थापितेन माषव्यतिरिक्तव्यञ्जनसर्पिस्तिलमिश्रेणान्नेन स्वयं कपित्थप्रमाणानशक्तावामलकप्रमाणान्वा पिण्डान्कृत्वा स्वस्याशक्तौ पत्न्याऽन्येन वा कारयित्वा तान्पिण्डानवाचीनपाणिना ददाति । एतत्ते ततामुकशर्मन्ये च त्वामन्विति पित्रे


  1. ङ. तिः । पित्र ।
  2. च. पित्र्यार्घ्यो ।
  3. ङ. म् । न वाऽत्रार्घ्यदानम् । त ।
  4. ङ. त् । ततः ।