पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९०
[मासिकश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

णोदकोत्सेचनं स्वसमीप उदकनिधानं च कृत्वा लौकिकाग्निं महानसे प्रतिष्ठाप्य पितृभ्यो होमभोजनार्थं तस्मिन्नग्नौ स्वयमेव पाकं कुर्यात् । स्वस्याशक्तौ पत्न्यादिभिः । स्त्रीकर्तृके पाके रेखालेखनादि न ।

 तप्त उपलिप्ते श्राद्धस्थले प्रागग्रान्दर्भान्वैश्वदेवब्राह्मणासनार्थं परिकल्प्य पित्र्यब्राह्मणासनार्थं दक्षिणाग्रान्दर्भान्परिकल्पयेत् । अत्र द्वि[१]तीयं निमन्त्रणं पाकः सिद्ध आगम्यतां दैवे क्षणः क्रियतां पित्र्ये क्षणः क्रियतामिति यथायथं दैवपित्र्यधर्मेण पूर्ववत् ।

 तत औपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा मासिकश्राद्धहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्राचीनावीती प्रधानहोमे सोमं पितृमन्तमाज्या[२]हुत्या १, यममङ्गिरस्वन्तं पितृमन्तमा० २, पितरमा० ३, पितामहमा० ४, प्रपितामहमा० ५, अमुकशर्माणमा० ६, अमुकशर्माणमा० ७, अमुकशर्माणमा० ८ पितरमा० ९, पितामहमा० १०, प्रपितामहमा० ११, पितॄ[३]न्द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये १२-१३, पितॄनाज्याहुत्या० १४, पितामहानाज्याहुत्या० १५, प्रपितामहाना[४]ज्याहु० १६, इति वदेत् । एवमन्नेन षोडश । तत्रा[५]ऽऽज्याहुत्येत्येतस्य स्थाने[६]ऽन्नाहुत्येति वदेत् । त्रीनन्तिमान्वेतिपक्षे पितॄनन्ना[७]हुत्या पितामहानन्नाहुत्या प्रपितामहानन्नाहुत्येत्येता एवोल्लिखेत्, नान्याः । सोमं पितृमन्तमाज्याहु[८]त्या यममङ्गिरस्वन्तं पितृमन्तमा० मातामहमा० मातुःपितामहमा० मातुःप्रपितामहमा० । अमुकशर्माणमा० । अमुकशर्माणमा० । अमुकशर्माणमा० । मातामहमा० मातुःपितामहमा० । मातुःप्रपितामहामा० । पितॄ[९]न्द्वाभ्यामाज्याहुतिभ्यां० । मातामहाना० ।मातुःपितामहाना० । मातुःप्रपितामहाना[१०]ज्याहुत्या यक्ष्य इति मातामहपार्वण उल्लेखः । एवमन्नेन षोडश । आ[११]ज्याहुत्येत्यत्रान्ना[१२]हुत्येति । त्रीनन्तिमान्वेतिपक्षे मातामहानन्नाहुत्या । मातुःपितामहानन्नाहुत्या । मातुःप्रपितामहानन्नाहुत्येत्येता एवोल्लिखेन्नान्याः । ततोऽग्निं कव्यवाहनं स्विष्टकृतमन्नाहुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीती--प्रायश्चित्तहो[१३]मकर्तव्यतापक्षे प्रायश्चित्तहोमे--अग्निं[१४] तिसृभिराज्याहुतिभिरित्यादि । परिस्तरणकाले पुरस्ताद्दक्षिणाग्रैर्दर्भैः परिस्तीर्य दक्षिणतः


  1. ङ. च. तृतीय ।
  2. अत्र ङ. पुस्तक आज्येनेति । एवमग्रेऽपि ।
  3. ङ. तॄन्द्विरा । पितॄनाज्येन पितामहाना ।
  4. ङ. नाज्येन यक्ष्य इ ।
  5. ङ. त्राऽऽज्येनेत्येत ।
  6. ङ. नेऽन्नेनेति ।
  7. ङ. पुस्तकेऽन्नेनेति । एवमग्रेऽपि ।
  8. ङ. पुस्तक आज्येनेति । एवमग्रेऽपि ।
  9. ङ. तॄन्द्विरा । माता ।
  10. ङ. नाज्येन य ।
  11. ङ. आज्येनेत्यत्राग्नेनेति ।
  12. ङ. पुस्तकेऽन्नेनेति । एवमग्रेऽपि ।
  13. ङ. होमे ।
  14. ङ. ग्निं त्रिरि ।