पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिकश्राद्धप्रयोगः]
१०९१
संस्काररत्नमाला ।

प्रागग्रैः पश्चाद्दक्षिणाग्रैरुत्तरतः प्रागग्रैरित्येवं परिस्तृणाति । अत्रोत्तरदिक्स्थाः परिस्तरणदर्भाः पूर्वपश्चिमदर्भाणामुपरि दक्षिणदिक्स्थास्तदधोभाग इति केचित् ।

 ततोऽग्नेरुत्तरत एव दर्भान्संस्तीर्य तेषु युगपदेकैकशो वा पात्राणि प्रयुनक्ति--औदुम्बरीं दर्वीमौदुम्बरं स्रुवमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं ब्राह्मभोजनपात्राणि तिलान्यवांस्तैजसं मृन्मयं वाऽर्घ्यपात्रद्वयमौदुम्बरमिध्मं बर्हिः संमार्गदर्भानवज्वलनदर्भानाज्यमिति ।

 अत्र परिधयोऽप्यौदुम्बरा एव । समूलमेव बर्हिः । एतच्चार्घ्यपात्रद्वयस्याऽऽसादनमाज्यसंस्कारोत्तरं ब्राह्मणोपवेशनादीति पक्षे । उपसमाधानात्प्राक्कर्तव्यतापक्षे तु न ।

 ततो देवार्घ्यपात्रार्थं दर्भद्वयात्मकं पित्रर्घ्यपात्रार्थमेकदर्भमयमिति पवित्रद्वयं कृत्वा प्रज्ञातं निधायान्यदेकदर्भमयं पवित्रं कृत्वा तेनैव प्रणीताः संस्कृत्याग्नेरुत्तरतो निधाय प्रोक्षणीरप्येतेनैव पवित्रेण संस्कृत्य पात्राणि प्रोक्ष्य स्रुवं दर्वीं च संमृज्य तेनैव पवित्रेणाऽऽज्यं संस्कृत्य पवित्रमग्नावादध्यात् । अत्राप्यङ्खारनिरूहणाज्योद्वासनयोरुत्तरत एव क्रिया न दक्षिणतोऽवचनात् । पर्यग्निकरणं प्रदक्षिणमेव परिषेकवदत्र विधानाभावात् ।

 ततः कुतपकाले ब्राह्मणान्प्रदक्षिणी कुर्वन् 'समस्तसंप० पादपांसवः' इति श्लोकान्पठेत् ।

 ततः--'अक्रोधनैः शौच० श्राद्धकारिणा' इति विप्रान्प्रार्थयेत् । भवामे(म इ)ति विप्राः । ततः पुरूरवसंज्ञका विश्वे देवाः स्वागतम्, आर्द्रवसंज्ञका विश्वे देवाः स्वागतमिति देवविप्रयोः स्वागतं कृत्वा पितः स्वागतं पितामह स्वागतं प्रपितामह स्वागतं मातामह स्वागतं मातु:पितामह स्वागतं मातुःप्रपितामह स्वागतमिति यथायथं पित्रादिविप्रस्वागतं सव्येनैव कुर्यात् । ततः पुरूरवसंज्ञका विश्वे देवा इदं वः पाद्यम्, आर्द्रवसंज्ञका विश्वे देवा इदं वः पाद्यम्, इति देवविप्रपादोपरि द्विवारं पाद्यं[१] गृहाङ्गण एव दत्त्वा पादप्रक्षालनं कुर्यात् । ततः प्राचीनावीती पितरमुकशर्मन्नमुकगोत्र वसुरूपेदं ते पाद्यमित्याद्यूहेन पितृतीर्थेन पित्रादिविप्रपादोपरि त्रिवारं पाद्यं[२] गृहाङ्गण एव दत्त्वा पादप्रक्षालनं कुर्यात् । ततो विप्रा आचमनं कुर्युः । कर्ता यज्ञोपवीती भूत्वाऽऽचमनं कुर्यात् । सर्वाण्याचमनानि सव्येनैव कार्याणि ।


  1. ङ. द्यं. द ।
  2. ङ. द्यं द ।