([१] ततः कर्ता--
"जपच्छिद्रं तपश्छिद्रं यच्छिद्रं श्राद्धकर्मणि । |
इति पुनः प्रार्थयेत् । विप्राः सर्वमच्छिद्रं भवत्विति वदेयुः । ततो विप्रान्प्रदक्षिणीकृत्य तदाशिषो गृह्णीयात् । ततः कर्मपूर्णतासिद्ध्यर्थमनाज्ञातमितिमन्त्रत्रयमिदं विष्णुरिति व्याहृतीश्च जपेत् । आभिर्गीभिरिति ततः पठित्वा ।) यस्य स्मृ[२]त्येत्यादि [पठेत् ] । अनेन[३] मासिश्राद्धाख्येन कर्मणा श्रीपरमेश्वरः प्रीयतां न ममेति[४] कर्मेश्वरायार्पयित्वा विष्णुं संस्मृत्य पवित्रे ग्रन्थिं विसृज्य त्यक्त्वा[५] द्विवारमाचमनं कुर्यात् । ततो बन्धुभिः सह श्राद्धशेषं भुञ्जीतेति । सर्वत्र[६] श्राद्धाङ्गेषु यत्किंचिद्वैगुण्ये[७]ऽनाज्ञातमन्त्रत्रयवैष्णव्यृक्स(वर्क्स)मस्तव्याहृतिजपः प्रायश्चित्तं द्रष्टव्यम् । आहिताग्निश्चेच्छ्रौतपितृयज्ञविधिवत्कुर्यात् । अनाहिताग्निश्चेत्सोऽयमेवं विहितोऽनाहिताग्नेरित्यादिविधिना कुर्यात् । ब्रह्मचारिस्नातकयोरपि सोऽयमेवं विहित इत्यादिविधिरेव । विवाहे कृते तस्यैव प्रायः प्रथमोपस्थितत्वात् । दूरभार्यस्याऽऽहिताग्नित्वानाहिताग्नित्वानुसारेण । विधुरस्याप्येवम् । न च प्रकृतिभूतस्य पिण्डपितृयज्ञस्यैवानारम्भात्कथं तद्विकृतिभूतानुष्ठानमिति वाच्यम् । एतस्य नियमस्य प्रकृत्युत्तरोत्पन्नविकृतिविषय एवान्यथाऽनुपपत्त्याऽङ्गीकारात् । यथाऽऽग्रयणेष्ट्यादौ । पावमानेष्ट्यादौ तु प्रकृत्युत्तरोत्पन्नत्वाभावेन न प्रकृत्यनुष्ठानोत्तरमेव विकृत्यनुष्ठानमिति नियमः । एवं सांवत्सरिकादिश्राद्धानां प्रकृतिभूतपिण्डपितृयज्ञात्पूर्वं प्रकृ[८]त उत्पन्नत्वेन नायं नियम इति सिद्धं प्रकृत्यनुष्ठानाभावे विकृत्यनुष्ठानम्[९] । अत्र भोक्तुः प्रायश्चित्तं षट्प्राणायामाः । बुद्ध्या श्राद्धलोपे प्राजापत्यं प्रायश्चित्तं प्रमादाल्लोपे तूपवास इति द्रष्टव्यम् ।
इति संस्काररत्नमालायां दर्शश्राद्धापरपर्यायमासिकश्राद्धप्रयोगः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धेऽष्टमं प्रकरणम् ॥ ८ ॥