अथ नवमं प्रकरणम् ।
अथ सद्यःपक्षमाश्रित्य मासिकश्राद्धस्य प्रयोगः ।
कर्ता कृतनित्यक्रियो हस्त[१](स्तौ)पादौ प्रक्षाल्योदङ्मुखो द्विराचम्य वर्गद्वयस्य तिलतर्पणं विधा[२]याऽऽचम्य मासिश्राद्धोक्ते देश आसन उपविश्य सर्वदृग्दोषनिबर्हणार्थं समीपे छागं तदभावे कृष्णाजिनं बद्ध्वा तस्याप्यभावे तिलांस्तूष्णीं चतुर्दिक्षु विकीर्याऽऽचम्य 'निहन्मि सर्वं० सर्वे' इति[३] सर्वदोषनिबर्हणार्थं सकुशान्यवान्प्रदक्षिणं श्राद्धस्थले विकिरेत् । 'तिला रक्षन्त्वसुरा० सर्वरक्षकः' इति तिलानप्रदक्षिणं प्राचीनावीती प्रदक्षिणं यज्ञोपवीती वा विकिरेत् ।
ततः--
([४]"ये राक्षसाः श्रिता दिक्षु श्राद्धकर्मविघातकाः । |
इति दिग्बन्धार्थं तिलांस्तथैव विकिरेत् ।) ततः प्रमादकृताशुचित्वनिवृत्त्यर्थं शुचित्वातिशयार्थं वा पुण्डरीकाक्षं स्मरेत् । ततो गयायै नमो गदाधराय नमो वस्वादिभ्यः पितृभ्यो नम इति ध्यानपूर्वकमेतान्नमस्कृत्योदङ्मुखो द्विराचम्य प्राणानायम्य देशकालौ संकीर्त्य पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानामित्युक्त्वा प्राचीनावीती भूत्वा दक्षिणामुखोऽस्मत्पितृपितामहप्रपितामहानाममु[५]कामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहानाममु[६]कामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां तृप्त्यर्थमन्नेन हविषा मासिकश्राद्धं सद्यः करिष्य इति संकल्पं कुर्यात्[७] ।
पितृभ्योऽन्नं संस्कृत्येत्येतज्ज्ञापकं देवप्रापकमात्रम् । स्मृत्युक्तोपसंहारोऽनावश्यक इतिपक्षे मातामहपार्वणं न । पूर्वं गोत्रोच्चारणं पश्चान्नामोच्चारणमित्येवं वा । एवं सर्वत्र ।
नामाज्ञाने पिण्डदानव्यतिरिक्तकर्मसु ब्रह्मविष्णुशिवशब्दैर्व्यवहारः । गोत्राज्ञाने काश्यपगोत्रम् ।