पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०८३
संस्काररत्नमाला ।

नाभ्यञ्जने वासश्चानुपिण्डं ददाति । आङ्क्ष्व पितरमुकशर्म[१]न्निति पितृपिण्डे तदाञ्जनं दर्भशलाकया योजयति । आङ्क्ष्व पितामहामुकशर्म[२]न्निति पितामहपिण्डे । आङ्क्ष्व प्रपितामहामुकशर्म[३]न्निति प्रपितामहपिण्डे । प्रत्येकं त्रिः । सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं प्रत्येकमिति भाष्यकृत् । अस्मिन्मते चतुर्थपिण्डे[४]ऽपि तूष्णीम् । त्रिग्रहणं चतुर्थपिण्डनिवृत्त्यर्थमित्यन्ये । तदा सकृत्सकृदेव । एवं मातामहादिपिण्डेष्वप्याञ्जनमूहेन दद्यात् । अभ्यङ्क्ष्व पितरित्याद्यूहेन वर्गद्वयपिण्डेषु तदभ्यञ्जनमाञ्जनवद्दद्यात्[५] । उभयत्रापि सपत्नीकत्वस्याभिध्यानमात्रम् । अत्रापि गोत्ररूपोच्चारणं केचित्कुर्वन्ति । 'एतानि वः पितरो० यूढ्वम्' [ इति ] दशामूर्णास्तुकां वा छित्त्वा छित्त्वा पिण्डेषु क्षिपति पूर्वे वयसि । प्रतिवर्गं मन्त्रावृत्तिः । सकृदेव वा मन्त्रः । छित्त्वेतिवचनाद्गलितयोर्न ग्रहणम् । पञ्चाशद्वर्षात्पूर्वं पूर्वं वयः । तत ऊर्ध्वमुत्तरम् । उत्तरे वयसि स्वदक्षिणप्रकोष्ठस्थं हृदयस्थं वा लोम च्छित्त्वा छित्त्वा तेनैव मन्त्रेण न्यस्यति । न दशा नोर्णास्तुका । सर्वथा लोमाभावे दशैव वोर्णास्तुकैव वा । ततः पितृभ्यो नम इति गन्धपुष्पधूपदीपनैवेद्यफलताम्बूलदक्षिणाभिः पिण्डपूजनं कुर्यात् । इदं च शिष्टाः सव्येन कुर्वन्ति[६] । सव्येन पूजनक्रियापक्षे प्राचीनावीती 'नमो वः पितरो रसाय पितरो नमो० नमो वः पितरः शुष्माय पितरो० नमो वः पितरो जीवाय पितरो० नमो वः पितरः स्वधायै पितरो० नमो वः पितरो मन्यवे पितरो० नमो वः पितरो घोराय पितरो० नमो वो य एतस्मिल्लोँके स्थ युष्मा स्तेऽनु येऽस्मिँल्लोके मां तेऽनु य एतस्मिँल्लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिँल्लोकेऽहं तेषां वसिष्ठो भूयासम्' इति सानुषङ्गैः षड्भिर्मन्त्रैः सर्वान्पितॄनभिध्यायन्नुपतिष्ठते । सप्तभिरिति पिण्डपितृयज्ञे वैजयन्तीकारः । अस्मिन्पक्षे सानुषङ्गाः षण्मन्त्राः । यथा--पाठपठितः सप्तम इति द्रष्टव्यम्[७] । वस्तुतोऽत्र मूलं चिन्त्यम् । यथापाठपठित एक एव मन्त्र इति केचित् । ततः पूर्वव[८]दवशिष्टकुम्भोदकेन त्रीनुदपातान्निनयति 'ऊर्जस्वतीः स्वधया वन्दमाना पितॄन्' इति मन्त्रेण । 'उत्तिष्ठत पितरः प्रेतपूर्वे० देवतासु' इति सर्वेषां पितॄणामुत्थानं भावयञ्जपति[९] । अत्र पवित्रत्यागः कृताकृतः । 'परेत पितरः सोम्या मदन्ति' [ इति ] सर्वेषां प्रवाहणं भावयञ्जपति । प्रवाहणं समीचीनैर्यानैः पितॄणां पितृलोकं प्रति नयनम् । 'यन्तु पितरो मनसा जवेन[१०]' इति सर्वेषां पितृलोकप्रापणं भावयञ्जपति ।


  1. ङ. र्मन्सपत्नीकेति ।
  2. ङ. र्मन्सपत्नीकेति ।
  3. ङ.र्मन्सपत्नीकेति ।
  4. च. ण्डे तू ।
  5. ङ. त् । अ ।
  6. ङ. न्ति । ततः नमो ।
  7. ङ. म् । य ।
  8. ङ. विदुदकु ।
  9. ङ. ति । प ।
  10. क. न पितॄन्स साधयति । इ ।