पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८४
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

'मनो न्वा हुवामहे नाराश सेन स्तोमेन० आ न एतु मनः पुनः क्रत्वे० पुनर्नः पितरो० सचेमहि' इति तिसृभिर्मनस्वतीभिः स्वलोकस्थाः पितर इति भावयन्नुपतिष्ठते[१] । ततो यज्ञोपवीती भूत्वा 'अक्षन्नमीमदन्त० हरी । प्रजापते न त्वदे० रयीणाम्' इति पङ्क्तिप्राजापत्याभ्यां गार्हपत्यस्य पश्चाद्गच्छति । 'यदन्तरिक्षं पृथिवीमुत द्यां० करोतु मामनेनसम्' इति गार्हपत्यमुपतिष्ठते । औपासने लौकिकाग्नौ वा होमक्रियायां यस्मिन्नग्नौ होमस्तस्योपस्थानम् । तत्र गार्हपत्यपदस्य लोपः । ततः 'अभून्नो दूतो० देवान्' इत्यतिप्रणीतमग्निं यस्मादतिप्रणीतस्तस्मिन्नग्नौ मेलयति । ततः पात्राण्यद्भिरभ्युक्ष्य द्वे द्वे आसादनस्थानाच्चालयति । स्फ्यपिण्डार्थोद्धृतान्नपात्रे मेक्षणस्रुवाविति[२] । स्रुवासादनाभावे येन पात्रेणाभिघारणं कृतं तत्पात्रं वा तृणं वा । यदि दर्भेणोल्लेखनं कृतं तदा प्रज्ञातस्थापितोल्लेखनदर्भपिण्डार्थोद्धृतान्नपात्रे इति द्वन्द्वं द्रष्टव्यम् । अत्र वा विकिरान्नदानम् । ततो यज्ञोपवीती देवविप्रहस्तयोः शिवा आपः सन्त्विति यवोदकं दद्यात् । सौमनस्यमस्त्विति पुष्पम् । अक्षतं चारिष्टं चास्त्विति यवान् । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त्विति पुनर्जलं दद्यात् । विप्रो- सन्तु शिवा आपः । अस्तु सौमनस्यम् । अस्त्वक्षतमरिष्टं च । अस्तु दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चेति यथायथं प्रतिवदेताम् । ततः प्राचीनावीती शिवा आपः सन्त्विति जलं दद्यात् । सौमनस्यमस्त्विति पुष्पम् । अक्षतं चारिष्टमिति तिलान् । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त्विति पुनर्जलं दद्यात् । पूर्ववद्विप्राणां प्रतिवचनानि । सर्वैर्विप्रैः स्वहस्तस्थपुष्पाक्षतानां भूमौ त्यागे कृत उपवीत्येवान्यान्यवान्देवविप्रहस्तयोर्दत्त्वाऽन्यांस्तिलान्पित्र्यविप्रहस्तेषु दद्यात् । ततोऽमुकगोत्रोऽमुकशर्माऽहं भो युष्मानभिवादय इति सर्वान्विप्रानभिवाद्याऽऽयुष्मान्भवेति तैरुक्तेऽमुकगोत्रं वर्धतामिति विप्रान्संप्रार्थयेत् । ते च वर्धतामित्युक्त्वा हस्ताक्षतान्कर्तुरञ्जलौ निक्षिपेयुः । ततः कर्ता तानक्षतान्स्वमस्तके निक्षिप्य भोजनपात्राणि सुतेन शिष्येण येन केनचित्सजातीयेन वा निष्काशयेत्[३] । न बालैः स्त्रीभिः पात्राणि निष्काशनीयानि । भुक्तोच्छिष्टं तत्पात्राणि च भूमौ निखनेत् । ततः प्राचीनावीती पूर्वस्थापितं पितृवर्गार्घ्यपात्रमादाय तत्र तिलोदकमानीयास्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्य यदत्तं मासिश्राद्धीयमन्नमुदकादि तदक्षय्यमस्त्विति भवन्तो ब्रुवन्तु इति पितृविप्रदक्षिणहस्ते जलं दद्यात् । अस्त्वक्षय्यमिति विप्रः । एवं पितामहप्रपितामहयोस्तत्तन्नाम्ना


  1. ङ. ते । औ ।
  2. ङ. ति । य ।
  3. ङ. त् । प्रा ।