पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[श्राद्धाङ्गतिलतर्पणम्]
१०५३
संस्काररत्नमाला ।

यत्तर्पणं नित्यं नैमित्तिकं वा तत्तिलरहितमेव कार्यम् । इदं च तर्पणं प्रस्तरप्रहरणे देवतासंकीर्तनवत्संनिपत्योपकारकम् । अत एव यद्दैवत्यं श्राद्धं तद्दैवत्यमेव भवति । ) अत्र पितृशब्दश्च श्राद्धेज्यदेवतापरः । तेनाऽऽब्दिकदिने तिलैर्विना सर्वासां नित्यतर्पणं पृथक्कर्तव्यमेव । ( [१]न चेयं नित्यतर्पणाकरणनिन्दा । अल्पप्रकरणेऽन्यस्याकरणनिन्दाया अयोग्यत्वात् । श्राद्धाङ्गभूतं तु परेद्युस्तिल[२]सहितमेव ।)

तदुक्तं संग्रहे--

"प्रत्यब्दाङ्गं तिलैर्दद्यान्निषिद्धेऽपि परेऽहनि ।
वर्गैकस्य वचो येषामन्येषां तु विवर्जयेत्" इति ॥

 तत्र श्राद्धाङ्गतर्पणे विधिरुक्तः संग्रहे--

"स्नात्वा तीरं समागत्य उपविश्य कुशासने ।
संतर्पयेत्पितॄनिज्यान्स्नात्वा वस्त्रं च धारयेत्" इति ॥

 तर्पणोत्तरं नित्यस्नानं संध्यां च कृत्वेत्यर्थः । ([३] अत्र स्नानोत्तरसंध्यामकृत्वैव तर्पणं कार्यमित्याहुस्तन्मन्दम् ।

"संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु" इति वाक्यात् ।

 न च तर्पणपर्यन्तं श्राद्धप्रयोगानुवृत्तेर्मध्ये संध्या नानुष्ठेयेति वाच्यम् । श्राद्धदिनसायंसंध्याननुष्ठानप्रसक्तेः । ततश्च स्नानसंध्यादीनां सर्वकर्मार्थत्वेन प्राप्तेरुपवेशनस्यापि सामान्यतः प्रातः(प्तेः) कुशासनं तर्पणोत्तरं स्नानं च विधीयत इति युक्तम् ) । संतर्पयेत्पितॄन्सर्वानिति पाठो महालयाभिप्रायेण । तत्र सर्वेषां पित्रादिगुर्वन्तानां श्राद्धविधानात् ।

"वर्गैकस्य वचो येषामन्येषां तु विवर्जयेत्" ।

 इत्याब्दिक इतरदेवतातर्पणनिषेधाच्च ।

गर्गः--

"पक्षश्राद्धे हिरण्ये च अनुव्रज्य तिलोदकम् ।
सकृन्महालये श्वः स्यादष्टकास्वन्त एव हि" इति ॥

 हिरण्ये हिरण्यश्राद्धे । पक्षश्राद्धे हिरण्यश्राद्धे च ब्राह्मणविसर्जनोत्तरं तर्पणं कर्तव्यमित्यर्थः । अन्ते श्राद्धसमाप्तौ ।

 गर्गः--

"कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत् ।
पितॄणां प्रत्यहं कार्यं निषिद्धाहेऽपि तर्पणम्" इति ॥


  1. धनुश्चिह्नान्तर्गतस्थाने ङ. पुस्तके 'श्राद्धाङ्गभूतस्यैव परेद्युरुक्तेः' इति वर्तते ।
  2. ख. च. लरहि ।
  3. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।