ऋ[१]तुषोडशाहात्पश्चादेव गर्भिणी सा रेतोधाः । भर्तृशासनोल्लङ्घिनी कामचारिणी । आसो(सां)[प्रथ]भ(म)गर्भे पूर्ववत्सांतपनं चान्द्रं वा ।)
अथ श्राद्धाङ्गतिलतर्पणम् ।
तच्च दर्शश्राद्धे तदहरेव पूर्वं विधाय श्राद्धारम्भः कार्यः ।
"पूर्वं तिलोदकं दत्त्वा अमाश्राद्धं तु कारयेत्" इति गर्गवचनात् ।
"दर्शे तिलोदकं पूर्वम्" इति संग्रहोक्तेश्च ।
([२] कारयेदिति स्वार्थे णिच् । श्राद्धस्य द्व्यहकालत्वे नित्यतर्पणस्य तन्त्रमध्यपातित्वात्तेनैव प्रसङ्गसिद्धिः । सद्यस्कालपक्षेऽप्येवम् । अन्याङ्गैरन्याङ्गानां प्रसङ्गसिद्धेः पशुपुरोडाशादावभ्युपगमात् । यत्तु यदा त्वनायत्या नित्यतर्पणोत्तरं श्राद्धसंकल्पस्तदा पृथक्कार्यम् । नित्यस्य प्रयोगानन्तःपातित्वादिति । तन्न । क्त्वाप्रत्ययेन प्रयोगबहिर्भूताङ्गानुष्ठानस्याऽऽरम्भणीयाबृहस्पतिसंवादा[३]व(द)भ्युपगमात् । अत इदमपि प्रयोगबहिर्भूतमेवाङ्गं पूर्वं कार्यम् । अतश्च प्रसङ्गानुष्ठानमविरुद्धम् । अतो न पृथक्तर्पणं दर्शे । यदा तु सप्तम्यादौ नित्यतर्पणं तिलरहितं क्रियते तदा तत्रप्रसङ्गयोरभावादिदं तिलसहितं पृथक्कार्यमेवेति ।) वार्षिकश्राद्धे तु परेद्युरेव ।
तत्रैव--"प्रत्यब्दे न भवेत्पूर्वं परेऽहनि तिलोदकम्" इतिस्मरणात् ।
बृहन्नारदीयेऽप्याब्दिकं प्रक्रम्य--
"परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् । |
इति गर्गेण प्रत्यवायस्योक्तेश्च । ( [४] मातापित्रोर्वार्षिके विशेषाः(षं) स्मृतिरत्नावल्यां वृद्धमनुराह--
"सप्तम्यां भानुवारे च मातापित्रोः क्षयेऽहनि । |
क्षयेऽहनीति निमित्तसप्तमीति केचित् । तन्न । वैरूप्यापत्तेः । प्रत्यब्दाङ्ग(ङ्गं) तिलैर्दद्यादितिवक्ष्यमाणवचनविरोधाच्च । किं त्वधिकरणसप्तम्येव । तेन क्षयाहे