पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवेऽतिथिपूजनम्]
९६५
संस्काररत्नमाला ।

 भिक्षुर्यतिर्ब्रह्मचारी च ।

 यदि वैश्वदेवात्पूर्वं भिक्षुरागच्छति तदा कथमित्याकाङ्क्षायां नृसिंहपुराणे--

"अकृते वैश्वदेवे तु भिक्षुके गृहमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत्" इति ॥

 ([१] पुराणान्तरेऽपि--

"अकृते वैश्वदेवे तु भिक्षुके गृहमागते ।
नैवेद्यार्थं च होमार्थमुद्धृत्यातिथिमर्चयेत्" इति ॥)

 यावद्वैश्वदेवपर्याप्तमन्नं भवति तावत्पृथक्कृत्वा नैवेद्यार्थं च पृथगुद्धृत्यावशिष्टान्नाद्भिक्षां दत्त्वा भिक्षुकं विसर्जयेदित्यर्थः ।

 भिक्षु[२]कशब्दोऽतिथ्यादीनामुपलक्षकः--

"यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपोषकः ।
अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः" इति[३]

 अकरणे प्रत्यवायमाह पराशरः--

"यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत्" इति ॥

 यतिब्रह्मचारिग्रहणं विद्यार्थ्यादीनामुपलक्षणमिति केचित् ।

 बहुषु भिक्षुकेष्वागतेष्वशक्तेन किं कर्तव्यमित्याकाङ्क्षायामाह पराशरः--

"दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।
इच्छया वा ततो दद्याद्विभवे सति चान्यतः" इति ॥

 अन्यतोऽन्येषामपीत्यर्थः ।

 यतिभिक्षाप्रदानप्रकारमाह स एव--

"यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् ।
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम्" इति ॥

 एतच्च भैक्षं सति संभवे बहुलं दातव्यम् । तदुक्तं ब्रह्मपुराणे--

"यः पात्रपूरणीं भिक्षां यतये संप्रयच्छति ।
विमुक्तः सर्वपापेभ्यो नासौ दुर्गतिमाप्नुयात्" इति ॥


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. ङ. पुस्तकेषु ।
  2. क. ख. ङ. क्षुश ।
  3. एतदनन्तरं च. पुस्तकेऽधिको ग्रन्थः स यथा--"विद्यार्थी(?) ब्रह्मचारी(?) भिन्नोऽपि व्रतकादिः । अध्वगो यस्य पाकसामग्रीवैकल्यं तादृशो ग्राह्यः । क्षीरा(ण) वृत्तिः, अनध्वगोऽपि सामग्रीविकलः । एते भिक्षायां पक्वान्नेऽधिकारिणः" इति ।