पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवेऽतिथिपूजनम्]
९६१
संस्काररत्नमाला ।

तब्राह्मणभोजनस्यैव मनुष्ययज्ञत्वात् । 'यद्ब्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते' इति श्रुतिरपि सामान्यतो ब्राह्मणसंप्रदानकान्नदानस्यैव मनुष्ययज्ञत्वमाह ।

 सुमन्तुर्वैश्वदेवान्त उपस्थितस्याभ्यागतत्वं त्य(स्य त्य)क्तप्रतिग्रहस्यातिथित्व[मन्यस्याभ्यागतत्व]माह--

"त्यक्ताः प्रतिग्रहाः सर्वे येन विप्रेण धीमता ।
उपस्थितं वैश्वदेवमतिथिं तं प्रचक्षते ॥
एतदन्यत्र संप्राप्तं विप्रमभ्यागतं विदुः" इति ।

 वैश्वदेवातिरिक्तकाले तस्मिन्नेव दिने संप्राप्तं वि[१]प्रमभ्यागतं विदुः । तमेव वैश्वदेवका[२]ल उपस्थितमतिथिं विदुरित्यर्थः । तथा च वैश्वदेवकाल उक्तलक्षणलक्षिताभ्यागतातिथ्योरन्यतरस्य वा भोजनं[३] मनुष्ययज्ञः । तदभावं[४] ब्राह्मणभोजनमात्रं मनुष्ययज्ञ इति तात्पर्यार्थः ।

बौधायनोऽपि--

"अहरहर्ब्राह्मणेभ्योऽन्नं दद्यान्मूलफलशाकानि
वेत्यथैनं मनुष्ययज्ञं समाप्नोति" इति ।

कार्ष्णाजिनिरपि--

"भिक्षां वा पुष्कलं वाऽपि हन्तकारमथापि वा ।
असंभवे न वै दद्यादुदपात्रमथापि वा" इति ॥

 पुष्कलमग्रमिति पर्यायौ ।

 कूर्मपुराणे---

"हन्तकारमथाग्रं वा भिक्षा वा शक्तितो द्विजः ।
दद्यादतिथये नित्यं बुध्येत परमेश्वरम्" इति ॥

 भिक्षादिलक्षणं मनुराह--

"ग्रासमात्रा भवेद्भिक्षा अग्रं ग्रासचतुष्टयम् ।
अग्रं चतुर्गुणीकृत्य हन्तकारोऽभिधीयते" इति ॥

 ग्रासपरिमाणं स्मृत्यर्थसारे ।

"अङ्गुष्ठपर्वमात्रा तु आहुतिः परिकीर्तिता ।
आहुतिद्वितयं ग्रासो मयूराण्डाकृतिस्तथा" इति ॥

 अतिथिनिरीक्षणाय गृहाङ्गणे कंचित्कालं तिष्ठेदित्युक्तं मार्कण्डेयपुराणे--

"आचम्य च ततः कुर्यात्प्राज्ञो द्वारावलोकनम् ।
मुहूर्तस्याष्टमं भागमुदीक्ष्यो ह्यतिथिर्भवेत्" इति ।


  1. क. विदुरित्यर्थः । त । ख. ङ. विदुरित्यर्थः । तथा ।
  2. ख. कालेऽभ्यागतोक्तलक्षणलक्षितातिथिभो ।
  3. च. नं वा म ।
  4. च. वे केवलब्रा ।