पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६०
[मनुष्ययज्ञः]
भट्टगोपीनाथदीक्षितविरचिता--

 पैठीनसिवचनस्थादिशब्देन नित्यश्राद्धमपि गृह्यते । तेन नित्यश्राद्धस्य पञ्चयज्ञानन्तःपातित्वे श्राद्धपाकशेषेण पृथक्पाकेन वा नित्यश्राद्धं वैश्वदेवात्प्रागेव ।

 अत्रोभयत्रापि मार्कण्डेयः-- 'ततो नित्यक्रियां कुर्यात्' इति । ततः श्राद्धशेषात् । नित्यक्रिया नित्यश्राद्धादि । तथा 'पृथक्पाकेन नैत्यः स्यात्' इति । यदि ब्राह्मणविसर्जनान्ते वैश्वदेवस्तत्पाकशेषेण । इतरत्र[१] तु पृथगिति निर्णयः । इति वैश्वदेवपाकनिर्णयः ।

अथ मनुष्ययज्ञः ।

 तत्रेदं धर्मसूत्रम्--'अग्नं च देयम्' इति । चकारोऽप्यर्थे । ब्राह्मणेभ्यो भोजनदानासमर्थस्त्वग्रपरिमितमप्यन्नं दद्यादिति । 'मनुष्येभ्यो हन्त' इति मन्त्रे बहुवचनात्त्रिप्रभृतयः । अशक्तावेकोऽपि । अ[२]भावे गोभ्यो दद्यात्[३] 'अतिथिभ्यो देयमन्नं गोभ्यो वा तदलाभतः' इति स्मृतिदर्पणे स्मृत्यन्तरोक्तेः । अस्मिन्कल्पे मन्त्रलोप एव । एकश्चेद्विप्रो लभ्यते तदाऽपि मन्त्रलोप एव । पूजार्थं वा बहुवचनम् । अस्मि[४]न्पक्षे न मन्त्रलोपः । अतिथीनामेवाऽऽदौ भोजनं पश्चात्कुमारादीनाम् ।

 तथा च धर्मसूत्रम्--

"अतिथी[५]नेवाग्रे भोजयेत्कुमारान्रोगमयुक्तान्तीश्चान्तर्वत्नीः" इति ।

 अतिथीन्वक्ष्यति तानेवाग्रे भोजयेत्, न स्वयं सहसा भुञ्जीत प्राक् । एवमतिथिव्यतिरिक्तानन्यानपि भोजयि[६]तव्यान्पश्चाद्भोजयेत् । कुमारान्रोगसंयुक्तान्स्त्रीश्चान्तर्वत्नीः । ये च गृहवर्तिनः कुमारादयस्तानप्यग्रे भोजयेत् । आपस्तम्बस्तु-- 'बालान्वृद्धान्रोगसंयुक्तास्त्रीश्चान्तर्वत्नीः' इत्याह । अत्रान्तर्वत्नीग्रहणादेव स्त्रीग्रहणे सिद्धे पुनर्ग्रहणं स्वस्रादीनामपि ग्रहणार्थमिति व्याख्यातमुज्ज्वलाकृता । स्वस्रादीनामपि ग्रहणार्थमित्यत्र गृहवर्तिनामपीति शेषः ।

 मनुष्ययज्ञस्वरूपं तु श्रुतावुक्तम्--

"यद्ब्राह्मणेभ्योऽन्नं ददाति तन्मनुष्ययज्ञः संतिष्ठते" इति ।

 कात्यायनोऽप्याह--"नृयज्ञोऽतिथिपूजनम्" इति ।

 न च वक्ष्यमाणलक्षणस्यातिथेरनित्यतया मनुष्ययज्ञस्य कथं नित्यतेति वाच्यम् । पूज्यमानब्राह्मणनिष्ठातिथित्वस्य फलाधि[७]क्यार्थतया तत्कालसमाग


  1. क. ख. ङ. त्र पृ ।
  2. च. एतदभावे ।
  3. क. ङ. त् । अस्मि ।
  4. च स्मिन्कल्पे न ।
  5. क. थीनाभिवा ।
  6. क. यित्वा पश्चा ।
  7. क . धिक्यत ।