पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५०
[वैश्वदेवे बलिहरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

षेचनमिति स्यात् । अत्र वोपदेशवशादेव य एकदेशबलयस्तेषामेव सकृदन्ते परिषेचनं न यादृच्छिक्य(क)समवाये, तेन यद्यपीच्छयाऽगारस्योत्तरदेशः शय्यादेशः कृतस्तथाऽपि कामलिङ्गस्य पृथक्परिषेचनं भवत्येवेति व्याख्यातमुज्ज्वलाकृता । शय्यादेशस्तु गृहस्य दक्षिणतो नियतः ।

 तथाऽऽह ज्योतिर्निबन्धे लल्लः--

"स्नानं च पाकः शयनं च भोज्यं गजालयो वाजिगृहं धनस्य ।
दे[१]वस्य पूर्वादिदिशि क्रमेण मध्ये सभा भूषनिवेशनाय" इति ॥

 अन्यत्रापि--

"विक्रमस्थानं पचनं शयनं सूतिकागृहम् ।
भोजनं पशुभाण्डारमीशान्यां देवतागृहम्" इति ॥

ज्योतिर्वसिष्ठोऽपि--

"ऐन्द्र्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः ।
याम्यां तु शयनस्थानं नैर्ऋत्यां सूतिकागृहम् ॥
वारुण्यां भोजनगृहं वायव्यां पशुमन्दिरम् ।
कौबेर्यां तु धनस्थानमीशान्यां देवतागृहम्" इति ॥

 शिल्पशास्त्रे चैवम् ।

 अवदानबल्योः प्रमाणं स्मृत्यर्थसारे--

"अङ्गुष्ठपर्वमात्रं स्यादवदानं ततोऽपि च ।
ज्यायः स्विष्टकृदाज्यं तु चतुरङ्गुलसंमितम् ॥
कुक्कुटाण्डकमात्रं तु बलिरित्यभिधीयते" इति ।

 बलीनामार्द्रामलकप्रमाणत्वमुक्तं छन्दोगपरिशिष्टटीकायाम्--

"प्राणाहुतिं बलिं चैव आर्द्रामलकमानतः" इति ।

 कुर्यादिति शेषः ।

 बलयः सति सूपे तत्संसृष्टेनान्नेन कार्याः ।

 तदुक्तं धर्मसूत्रे--'सति सूप(पे)संसृष्टेन कार्याः' इति । सति सूपे तत्संसृष्टा बलयः कार्याः । अन्ये त्वन्यैरपि व्यञ्जनैः संसर्गमिच्छन्ति ।

 तथा च बौधायनः--'काममितरेषु' इति । एष एव व्यञ्जनसंस्कारः । व्यञ्जनसंसृष्टेनान्नेन बलयः कार्याः सति संभव इत्थमिति व्याख्यातमुज्ज्वलाकृता ।

 [२]लिदानप्रकारो धर्मसूत्रे--

"अपरेणाग्नि सप्तमाष्टमाभ्यामुदगपवर्गमुदधानसंनिधौ नवमेन मध्येऽगा
  1. च. गृहस्य ।
  2. क. ख. ङ. तत्प्रकारो ।