पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवहोमप्रकारः]
९४७
संस्काररत्नमाला ।

प्यन्नेऽयं संस्कारो भवतीति मातृदत्तमतं गम्यते । तत्र युक्तं ग्राह्यम् । ([१]परोक्षमित्यत्र स्वस्येति शेषः । स्वस्य परोक्षमप्रत्यक्षं संस्कृतम् । अन्यैः संस्कृतमिति यावत् । तथा च स्वव्यतिरिक्तैः संस्कृतमन्नमग्नावधिश्रित्येत्यर्थो निष्पन्नो भवति । स्वयमेव संस्कृतं चेत्तदा नायं संस्कार इत्यर्थत एव सिद्धम् । न च स्वस्य पश्यत एव यदि पाककर्त्रा संस्कृतं तदा नायं संस्कारः कर्तव्यो भवेत्, संस्कारस्य तदा प्रत्यक्षत्वादिति वाच्यम् । इष्टापत्तेरिति मातृदत्तमतानुगुणोऽर्थः । यदि शूद्राः परोक्षमन्नं संस्कुर्युरित्युज्ज्वलाकृद्ग्रन्थस्वरसतस्तु शूद्रकर्तृकपाको देवपवित्रसंस्कारे न केवलं निमित्तं किं तु शूद्रकर्तृकपाकेऽपि यदि तेन पाककर्त्रा शुद्रेणापश्यता पाचितं चेत्तदैव पवित्रसंस्कारो नान्यथा । स चापश्यता पाचितस्यान्नस्यैवेति विशेषोऽवगम्यते । पाकेऽपश्यत्तायां हेतुर्व्यग्रचित्तत्वादिर्ज्ञेयः । यदि शूद्रा इत्यनन्तरं स्वस्येति पदं यदि योज्यते तदाऽयमर्थो भवति । यदि शूद्राः स्वस्याप्रत्यक्षमन्नं संस्कुर्युस्तदाऽयं संस्कार इति । एवं च स्वस्य प्रत्यक्षं शूद्रैः कृतेऽपि पाके नायं संस्कार इत्यर्थात्सिध्यति । उज्ज्वलाकृन्मते यथा पाककर्त्राऽपश्यता पाककरणेऽयं देवपवित्रसंस्कारस्तथा परोक्षमित्यत्र स्वस्येत्यस्यान्वयवत्स्वेनेत्यस्याप्यन्वयसंभवात्स्वकर्तृके पाकेऽपि स्वेनापश्यता पाचितान्नस्यैव संस्कारो न सामान्यतः सर्वस्यान्नस्येति । एवमार्यकर्तृकेऽपि पाके । अपश्यत्कर्तृक इति यद्युच्यते तदा तु स्वकर्तृकेऽपि पाक एतादृशेऽपि विषये देवपवित्रसंस्कार इति परोक्षमित्येतत्क्रियायामेवान्वेति न त्वन्ने तस्य प्रत्यक्षत्वेन तत्रान्वयासंभवात् । अत एव मातृदत्तेन परोक्षसंस्कृतत्वेनाग्नावन्नवयमधिश्रित्येति संस्कार एव परोक्षशब्दस्यान्वयः कृतः । एतेष्वर्थेषु युक्तायुक्तत्वं सद्भिर्विचार्य यद्युक्तं तद्ग्राह्यम् ।) देवपवित्रसंस्काराभावेऽपि घृतसंस्कारार्थं हविष्यान्नेन सह तत्संसर्गस्याऽऽवश्यकत्वाद्घृताभ्यक्तताऽन्नस्याऽऽवश्यकी यदशनीयस्येत्यनेनैतल्लभ्यते ।

 होमप्रकारो धर्मसूत्रे--

"औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्र हस्तेनैता आहुतीर्जुहुयात्" इति ।

 षड्भिराद्यैः, ॐ अग्नये स्वाहा, ॐ विश्वेभ्यो देवेभ्यः स्वाहा "ॐ ध्रुवाय भूमाय स्वाहा, ॐ ध्रुवक्षितये स्वाहा, ॐ अच्युतक्षितये स्वाहा, ॐ अग्नये स्विष्टकृते स्वाहा, इत्येतैः । एते मन्त्रा उपनिषद्भागे पठिताः ।

 यद्यपि सोमाय स्वाहेति पाठे न पठितं तथाऽपि हविष्केषु सर्वत्र तस्य


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।