पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४६
[वैश्वदेवविहितहविर्द्रव्यविचारः]
भट्टगोपीनाथदीक्षितविरचिता--

महानसेऽन्नमाकुर्यात्सवर्णा(?) तत्र वाचयेत् ।
प्रणवाद्यपि वा कुर्यात्कात्यायनवचो यथा" इति ॥

 आकुर्यात्स्थापयीतेत्यर्थः । प्रणवाद्यपि वा कुर्यात् । प्रणवं प्रतिवचनसिद्ध्यर्थं पठेत् । आदिशब्देन व्याहृत्यादि ।)

 हौ(हो)म्पद्रव्यस्याधिश्रयणादिकमुक्तं धर्मसूत्रे--

"परोक्षमन्त्र स स्कृतमग्नावधिश्रित्या[१]द्भिः प्रोक्षेत्तद्देवपवित्रमित्याचक्षते" इति ।

 यदि शूद्राः परोक्षमन्नं संस्कुर्युः, तदा तत्परोक्षमन्नं संस्कृतमाहृतं स्वयमग्नावधिश्रयेत् । अधिश्रित्याद्भिः प्रोक्षेत् । प्रोक्षितमन्नं देवपवित्रमित्याचक्षते । देवानामपि तत्पवित्रं किं पुनर्मनुष्याणामिति व्याख्यातमुज्ज्वलाकृता । शृतमन्नमग्नौ स्वयमधिश्रयेत् । अधिश्रय[२]णं पुनरग्नेरुपरि स्थापनमात्रमन्नसहितस्य पात्रस्य । अधिश्रित्येत्येतदनन्तरं संस्कृतमित्येतत्पदमनुषज्यते । अग्नावधिश्रित्य संस्कृतं तत्प्रोक्षेदित्यन्वयः । संस्कृतमित्यत्राभिघारेणेति शेषः ।

तथा च कात्यायनः--

"उद्धृत्य हविरासिच्य हविष्येण घृतादिना ।
स्वशाखाविधिना हुत्वा तच्छेषेण बलिं हरेत्" इति ।

 हविष्येण घृतादिना घृताद्यन्यतमद्रव्येणोद्धृतं हविरासिच्याभिघार्य तेन हविषा जुहुयादित्यर्थः । आदिशब्दग्राह्यद्रव्याण्याह व्यासः--

"जुहुयात्सर्पिषाऽभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं पयसाऽभ्यक्तं तदभावेऽम्भसाऽपि वा" इति ॥

 ([३]यस्तु--

"जुहुयात्सर्पिषाऽभ्यक्तं गव्येन पयसाऽपि वा ।
क्रीतेन गोविकारेण तिलतैलेन वा पुनः ॥
संप्रोक्ष्य पयसा वाऽपि नानक्तं जुहुयादपि ।
अस्नेहा यवगोधूमशालयो हवनीयकाः" ॥

 इति बृहत्पराशरोक्तस्तैलविधिः स आज्यप्रतिनिधित्वेन तैलोपादानपरः । तच्च तिलतैलमेव । तेन सर्पिरभावे तिलतैलमात्रस्य ग्राह्यता नान्यस्येति द्रष्टव्यम् ।) अयं च देवपवित्रसंस्कारो यदि शूद्रा इत्युक्त्या शूद्रकर्तृकपाकपक्ष एवेत्युज्ज्वलाकृन्मतं गम्यते । परोक्षसंस्कृतत्वेनाग्नावन्नत्रयमधिश्रित्येति त्रिवृदन्नहोमे[४] केवलं परोक्षसंस्कृतत्व[५]स्यैव देवपवित्रसंस्कारहेतुत्वदर्शनादशूद्रपक्वेऽ


  1. ङ. च. त्याद्भिरवोक्षे ।
  2. च. यणमग्ने ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. ङ. पुस्तकेषु ।
  4. क. ख ङ. मे. प ।
  5. क. त्वमस्यै ।