पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अग्निमुखप्रयोगः]
८९
संस्काररत्नमाला ।
( राष्ट्रभृत्स्विष्टकृद्धोमौ)
 

 राष्ट्रभृन्मन्त्राणां विश्वे देवा लिङ्गोक्ता देवता यजूंषि । उत्तराङ्गभूतराष्ट्रभृदुपहोमे विनियोगः--

 "ॐ ऋताषाडृतधामाऽग्निर्गन्धर्वः स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा" ऋतासाह ऋतधाम्नेऽग्नये गन्धर्वायेदं० । "तस्यौषधयोऽप्सरस ऊर्जो नाम ता इदं ब्रह्म क्षत्त्रं पान्तु ताभ्यः स्वाहा" ओषधीभ्योऽप्सरोभ्य ऊर्ग्भ्य इदं० । "स हितो० वः स० पातु त०" स हिताय विश्वसाम्ने सूर्याय गन्धर्वायेदं० । "तस्य मरीच० मता० पान्तु ता०" मरीचिभ्योऽप्सरोभ्य आयुभ्य इदं० । "ॐ सुषुम्नः र्वः स०" सुषुम्नाय सूर्यरश्मये चन्द्रमसे गन्धर्वायेदं । "तस्य नक्ष० नाम ता इ०" नक्षत्रेभ्योऽप्सरोभ्यो बेकुरिभ्य इदं० । "ॐ भुज्युः सु० र्वः स०" भुज्यवे सुपर्णाय यज्ञाय गन्धर्वायेदं० । "तस्य दक्षिणा० मता इ०" दक्षिणाभ्योऽप्सरोभ्यः स्तवाभ्य इ० । "प्रजापतिर्वि० र्वः स०" प्रजापतये विश्वकर्मणे मनसे गन्धर्वा० । "तस्यर्क्सामा० म ता इ० ऋक्सामेभ्योऽप्सरोभ्यो वह्निभ्य इ० । "ॐ इषिरो विश्व० र्वः स०" इषिराय विश्वव्यचसे वाताय गन्धर्वा० । "तस्यापोऽप्स० म ता इ०" अद्भ्योऽप्सरोभ्यो मुदाभ्य इदं० । "ॐ भुवनस्य० स्ति स्वा०" भुवनस्य पत्य इदं० । "ॐ परमेष्ठ्य० र्वः स०" परमेष्ठिनेऽधिपतये मृत्यवे गन्धः । "तस्य वि० म ता०" विश्वस्मा अप्सरोभ्यो भूभ्य इ० । "ॐ सुक्षितिः० र्वः स०" सुक्षितये सुभूतये भद्रकृते सुवर्वते पर्जन्याय गन्ध० । "तस्य विद्यु० म ता इ०" विद्युद्भ्योऽप्सरोभ्यो रुग्भ्य इ० । "ॐ दूरे हेति० र्वः स०" दूरे हेतयेऽमृडयाय मृत्यवे गन्धर्वायेदं० । "तस्य प्रजा० म ता इ०" प्रजाभ्योऽप्सरोभ्यो भीरुभ्य इदं० । "ॐ चारुः कृपण० र्वः स०" चारवे कृपणकाशिने कामाय गन्धर्वा० । "तस्याऽऽधयो० म ता इ०" आधिभ्योऽप्सरोभ्यः शोचयन्तीभ्य इ० । "ॐ स नो भुव० यच्छ स्वाहा" भुवनस्य पत्य इ० । एते च जयाद्युपहोमा वैकल्पिकाः ।

 ततो यदस्येत्यस्य वामदेवोऽग्निः स्विष्टकृदत्यष्टिः, स्विष्टकृद्धोमे विनियोगः-- "यदस्य क० यित्रे स्वाहा" इत्युत्तरार्धपूर्वार्धे पूर्वाहुतितः किंचिद्भूयसीं पूर्वाभिराहुतिभिरसंसृष्टां जुहोति । अग्नये स्विष्टकृत इदं० । संसर्गश्चेत्सर्वप्रायश्चित्तमनाज्ञातादिजपश्च ।

 तत इध्मसंनहनशुल्बं विस्रस्याद्भिरभ्युक्ष्याग्नौ प्रहृत्य दर्व्या परिधीन्परिधानक्रमेणाङ्क्त्वा परिस्तरणेभ्यः कांश्चिद्दर्भान्सर्वान्वा सर्वमा


१२