पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८
[अग्निमुखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

चित्तय इदं० । चित्त्या इदमिति वा । "ॐ आकूतं च स्वाहा" आकूतायेदं० । "ॐ आकृतिश्च स्वाहा" आकूतय इदं० । आकूत्या इदमिति वा । "ॐ विज्ञातं च स्वाहा" विज्ञातायेदं० । " "ॐ विज्ञानं च स्वाहा" विज्ञानायेदं० । "ॐ मनश्च स्वाहा" मनस इदं० । "ॐ शक्वरीश्च स्वाहा" "शक्वरीभ्य इदं० । "ॐ दर्शश्च स्वाहा" दर्शायेदं० । "ॐ पूर्णमासश्च स्वाहा" पूर्णमासायेदं० । "ॐ बृहच्च स्वाहा" बृहत इदं० । "ॐ रथंतरं च स्वाहा" रथंतरायेदं० । "ॐ प्रजापतिर्जया० भूव स्वाहा" प्रजापतय इदं० । अथवा चित्ताय स्वाहा, चित्तये स्वाहा, आकूताय स्वाहा, आकूतये स्वाहा, विज्ञाताय स्वाहा, विज्ञानाय स्वाहा, मनसे स्वाहा, शक्वरीभ्यः स्वाहा, दर्शाय स्वाहा, पूर्णमासाय स्वाहा, बृहते स्वाहा, रथंतराय स्वाहा, इति चतुर्थ्यन्तैर्होमः । यथालिङ्गं त्यागः । अविकृत एव त्रयोदशो मन्त्रः ।

 अभ्यातानोपहोममन्त्राणां विश्वे देवा लिङ्गोक्ता देवता यजूंषि, उत्तराङ्गभूताभ्यातानोपहोमे विनियोगः-- "ॐ अग्निर्भूतानामधिपतिः स माऽवत्वस्मि० त्या स्वाहा" अग्नये भूतानामधिपतय इदं० । "ॐ इन्द्रो ज्येष्ठानाम०" इन्द्राय ज्येष्ठानामधिपतय इदं० । "ॐ यमः पृथिव्या अधि०" यमाय पृथिव्या अधिपतय इदं० । "ॐ वायुरन्तरिक्षस्याधि०" वायवेऽन्तरिक्षस्याधिपतय इदं० । "ॐ सूर्यो दिवोऽधि०" सूर्याय दिवोऽधिपतय इ० । "ॐ चन्द्रमा नक्षत्राणामधिपतिः०" चन्द्रमसे नक्षत्राणामधिपतय इदं० । "ॐ बृहस्पतिर्ब्रह्मणोऽधि०" बृहस्पतये ब्रह्मणोऽधिपतय इदं । "ॐ मित्रः सत्यानामधिपतिः०" मित्राय सत्यानामधिपतय इदं० । "ॐ वरुणोऽपामधि०" वरुणायापामधिपतय इदं० । "ॐ समुद्रः स्रोत्यानामधि०" समुद्राय स्रोत्यानामधिपतय इदं० । "ॐ अन्न साम्राज्यानामधिप०" अन्नाय साम्राज्यानामधिपतय इदं० । "ॐ सोम ओषधीनामधि०" सोमायौषधीनामधिपतय इदं० । "ॐ सविता प्रसवानामधि०" सवित्रे प्रसवानामधिपतय इदं० । "ॐ रुद्रः पशूनामधि०" रुद्राय पशूनामधिपतय इदं० । अत्रोदकस्पर्शः । "ॐ त्वष्टा रूपाणामधि०" त्वष्ट्रे रूपाणामधिपतय इदं० । "ॐ विष्णुः पर्वतानामधिपतिः" "विष्णवे पर्वतानामधिपतय इदं० । "ॐ मरुतो गणानामधिपतयस्ते माऽवन्त्व०" मरुद्भ्यो गणानामधिपतिभ्य इदं० । ततः प्राचीनावीती भूत्वा "पितरः पितामहाः परे० माऽवत । अस्मि०" पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्ततामहेभ्य इदं० ।

 ततो यज्ञोपवीत्यप उपस्पृशेत् । उपस्थानपक्षेऽपि प्राचीनावीतं न स्वाहाकारत्यागौ । एतच्च जीवत्पित्रादेरपि भवत्यनूहेनैव । अन्वारम्भकर्ताऽपि प्राचीनावीतं कार्यम् । अत्र पत्नी नान्वारभते पितृकर्मत्वात् ।