पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अन्तरितस्थालीपाकप्रयोगः]
८०३
संस्काररत्नमाला

 असंभवेन समोप्यैतं व्युद्धारं जुहुयादित्याश्वलायनोक्तपक्षा[१]न्तराङ्गीकारे त्वेकैव चरुस्थाली, एकमेव मेक्षणमुद्धरणपात्रद्वयमेकं वेति विशेषः ।

 ततः पवित्रकरणादि चरूद्वासनान्तं समानम् । व्युद्धृत्य जुहुयादित्येतस्मिन्पक्षे--अयमग्नये पथिकृतेऽयमग्नय इति निर्देशः ।

 ततोऽग्निं परिषिच्याऽऽसादितां समिधं तूष्णीमभ्याधायाऽऽसादितेन प्रथमचरुमेक्षणेन प्रथमचरोरुपहत्य, 'ॐ अग्नये पथिकृते स्वाहा' इति जुहोति । अग्नये पथिकृत इदं० ।

 ततो द्वितीयचरुमेक्षणेन द्वितीयचरोरुपहृत्य, 'ॐ अग्नये स्वाहा' इति जुहोति । अग्नय इदं० ।

 ततो द्वयोश्चर्वोरुत्तरार्धात्सकृत्सकृत्तत्तन्मेक्षणेन दर्व्यां गृहीत्वा, 'ॐ अग्नये स्विष्टकृते स्वाहा' इतीशान्यां पूर्वाहुतिभ्यामसंसक्तां जुहोति । अग्नये स्विष्टकृत इदं० ।

 एकत्र श्रपणपक्ष एकमेक्षण[२]स्यैव सत्त्वात्तेनैव द्वयोश्चर्वोः कौशल्येनोपह्रत्य होमः कार्यः । बहुदैवते कर्मण्यसंभवाद्दर्व्यां मेक्षणेन गृहीत्वा तया होमः कार्यः ।

 ततो मेक्षणमहरणं कृत्वाऽकृत्वा वा परिस्तरणविसर्गव्याहृतिहोमोत्तरपरिषेकाग्निपूजनसंस्थाजपोपस्थानब्राह्मणभोजनभूयसीदानविष्णुस्मरणेश्वरार्पणानि कुर्यात् । अथवा केवलं पाथिकृत एव कर्तव्यः । न त्वतिक्रान्तकाल: प्राकृतोऽपि ।

 यद्ययं स्थालीपाक उत्तरपर्वण्यपि न कृतस्तदा प्रतिपदादिषु पादकृच्छ्रात्मकप्रायश्चित्तपूर्वकं वैश्वानरस्थालीपाकं केवलं वा प्राकृतेन स्थालीपाकेन समानतन्त्रं वा कृत्वाऽनन्तरमेव पाथिकृतः स्थालीपाकोऽन्तरितद्वितीयस्थालीपाकेन समानतन्त्रः केवलो वा कर्तव्यः । अथवा वैश्वानरपाथिकृतावेवासमानतन्त्रौ कर्तव्यौ ।

 यद्वि द्वितीयोऽप्युत्तरपर्वणि न कृतस्तदा प्रतिपदादिष्वर्धकृच्छ्रं चरित्वा वैश्वानरपाथिकृतौ प्राकृताभ्यां स्थालीपाकाभ्यां समानतन्त्रौ केवलौ वा कृत्वैतावेव स्थालीपाकौ तृतीयेन स्थालीपाकेन समानतन्त्रौ केवलौ वा कुर्यात् ।

 यदि तृतीयोऽप्युत्तरपर्वणि न कृतस्तदा पुनःसंधानमेव ।

 उत्तरस्थालीपाकपर्यन्तं पूर्वस्य गौणकालः । एतदतिक्रम एव पाथिकृतादि प्रायश्चित्तं न मुख्यकालातिक्रमे । इत्येकः पक्षः ।



  1. क. क्षाङ्गी ।
  2. क. णस ।