प्रत्यागमनोपस्थानाकरणेऽपीदमेव प्रायश्चित्तम् । दशरात्राधिकप्रवासे मनस्वती होतव्या । ऋत्वधिकप्रवासेऽग्नये व्रतभृते चरुः । संवत्सरातिप्रवासे पवित्रेष्टिदेवताभ्यो जुहुयात् । तत्राग्नये पवमानाय चरुः सरस्वत्यै प्रियाया आज्यम् । अग्नये पावकाय चरुः । सवित्रे सत्यप्रसवायाऽऽज्यम् । अग्नये शुचये चरुः । वायवे नियुत्वत आज्यम् । अग्नये व्रतपतये चरुः । विष्णवे शिपिविष्टायाऽऽज्यम् । अग्नये वैश्वानराय चरुः । दधिक्राव्ण आज्यम् । स्थालीपाकोक्तरीत्याऽऽघारवत्तन्त्रेणैव यथाक्रमं होमः । अथवा वैश्वानरस्थालीपाक एव कार्यः । उभयत्रापि मनस्वत्याः समुच्चयः । यस्यां दिश्यग्निर्भवति तदभिमुखः स्थित्वा होमसंबन्ध्युपस्थानं कुर्यात् । पत्यौ प्रोषिते पत्न्यौपासनहोमपार्वणस्थालीपाकपिण्डपितृयज्ञनैमित्तिकप्रायश्चित्तान्यृत्विग्द्वारा कारणीयानि । उद्देशत्यागमात्रं स्वकर्तृकम् । स्वयं यदि [१]रजोवती प्रसूता वा तदा त्याग ऋत्विजैव कारणीयः । आग्रयणं तु--अग्निहोत्रीं वै नानाऽऽदयित्वा तस्याः क्षीरेण जुहुयादित्यनुकल्पेनैव । पुनःसंधानगृहदाहादिनिमित्तकस्थालीपाकास्तु पत्यागमनपर्यन्तं न कार्यः (र्याः)। प्रायश्चित्तार्थस्थालीपाकप्राप्तौ पूर्णाहुतिः । प्रवासस्य निमित्तं तु धनं विद्या च, न तु तीर्थादिकम् । पत्युर्धनार्जनार्थं प्रवासं कर्तुमशक्तौ पत्न्याऽपि प्रवासोपस्थानमकृत्वैव तदर्थं प्रवासः कर्तव्य एव । होमसंबन्ध्युपस्थानं तु तया न का[२]र्यम् । व्रताचरणं तु भवत्येव । सर्वोऽपि प्रवासविधिर्गार्ह्ये कृताकृतः । तत्र करणे त्वभ्युदयः । अकरणे प्रत्यवायाभाव इति ज्ञेयम् । करणपक्षे सर्वथा कर्तव्य एव । इति प्रवासविधिः ।
अथान्तरितस्थालीपाकप्रयोगः ।
कर्ता पाथिकृतेन स्थालीपाकेन सहामुकस्थालीपाकेन यक्ष्य इति संकल्प्याग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पथिकृत्सहितांन्तरितामुकस्थालीपाककर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि, अग्निं पथिकृतं चर्वाहुत्या यक्ष्ये, आग्निं चर्वाहुत्या यक्ष्ये, अग्निं स्विष्टकृतं[३] हुतशेषचर्वाहुत्या यक्ष्ये, एता देवताः सद्यो यक्ष्य इत्युक्त्वाऽन्वाधा[४]नसमिधोऽग्नावभ्याधायाग्निं परिस्तीर्य, अग्नेरुत्तरतो दर्भान्संस्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं चरुस्थालीद्वयं मेक्षणद्वयं शूर्पं कृष्णाजिनमुलूखलं मुसलं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत् ।