प्रवासनिमित्तेन प्रवत्स्यामीति संकल्प्य प्रवासं यदि न करोति तदाऽप्युपस्थानं कार्यमेव ।
तदाह स एव--
"उपस्थानं हि संकल्प्य प्राक्प्रवासान्निवर्तते । |
यदि राजादिपुरुषा उपस्थानायावसरं न दद्युस्तदेहैवेत्युपस्थानं कृत्वा गन्तव्यम् ।
तथा च स एव--
"बलाद्राजादिपुरुषा यजमानं नयन्ति चेत् । |
गृह्ये तु--इहैव सन्तत्र सन्तं त्वेत्ययमेव मन्त्रो ग्राह्यः । न त्विहैव सन्तत्र सतो वो अग्नय इति । अग्नेरेकत्वात् ।
यदि तु यत्र कुत्रापि स्थितस्य प्रवास आपद्येत तदाऽप्येष एव विधिः ।
तथा च मण्डनः--
"आगमिष्यामि चाद्यैवेत्यनुपस्थाय निर्गतः । |
यदि तु यत्र कुत्रापि स्थितस्य प्रवासप्राप्तौ विस्मृत्य विधिर्न कृतस्तत्राप्येष एव कार्यो विधिः ।
तथा च मण्डनः--"विस्मृतेऽपि यदा यातस्तत्राप्येष विधिर्भवेत्" इति ।
बुद्धिपूर्वं दर्पादनुपस्थाय निर्गमे स एवाऽऽह--
"बुद्धिपूर्वं यदा दर्पादनुपस्थाय निर्गतः । |
एषोऽनन्तरोक्तः, इहैवेत्युपस्थानरूपः ।
अत्र मनस्वतीहोमोऽपि भरद्वाजसूत्रव्याख्यातृभिरुक्तः--
"यद्युपस्थानमकृत्वा प्रवासं करोति तदा मनस्वतीं जुहोति" इति । |
आगतोपस्थितेरकरणेऽपीदमेव प्रायश्चित्तं द्रष्टव्यम् । इहेत्युपस्थानपक्षे मा प्रगामेत्यस्य लोपः ।
वाग्यमस्य विकल्पश्चोक्तो मण्डनेन--
"इहेत्युपस्थानपक्षे मा प्रगामेति लुप्यते । |