सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[साग्निकस्य प्रवासविधिः]
७९७
संस्काररत्नमाला

व्रतं चरतीति । प्रादुष्करणप्रभृति नाश्नीयादा होमादित्यादि व्रतम् । एतच्चर्तावृतौ कार्यमित्याह--ऋतुं प्रत्युपतिष्ठत इति । प्रवासविलम्बे प्रत्यृतु प्रवासोपस्थानं कुर्यान्मासद्वये मासद्वय इत्यर्थः । यद्यनुपस्थिताग्निं प्रति प्रवास आपद्येत प्राप्नुयात्तदेहैव सन्नित्यनेन विहाराभिमुखस्तत्रैवोपस्थाय गच्छेत् । प्रोष्य प्रवासं कृत्वाऽऽगतोऽग्नीनामसकाशे यस्मात्प्रदेशादग्रिमे प्रदेशेऽग्नीनां छदींषि दृश्यानि भवन्ति तत्र स्थितो वाचं नियम्याग्निसमीपं गत्वा वाचं विसृजेत् । कः पुरुषः श्रेयांसं महान्तं पूज्यं पुरुषं विषुप्तं विशेषेण स्वपन्तं बोधयतीति लोकप्रसिद्धिः, अतोऽग्नेस्तु सुतरां को बोधयिता । अप्रादुष्कृतस्यैव भस्मच्छन्नस्यैवाग्नेरुपस्थानमित्येकेषामाचार्याणां मतं तच्चाभयंकराभ्यामेव । अप्रादुष्कृतोपस्थानं प्रकृत्यैवोक्तत्वात् । अ[]ल्पोपस्थानविधिरेवात्रोपयुज्यते न पूर्वः । तस्य बह्वग्निविषयत्वात् । अप्रादुष्कृतानामिति बहुवचनं श्रौत उपयुज्यते, तत्राग्नीनां बहुत्वात्प्रवासं करिष्यन्नभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीत्युपस्थानं कुर्यात् । प्रोष्य तु--अभयंकराभयं मे कार्षीः स्वस्ति मेऽस्तु प्रावात्स्यमिति । ततो गृहा मा बिभीतेत्यादि भार्यां समीक्षत इत्यन्तं कुर्यात् ।

 मौनविषये पक्षद्वयमुक्तं मण्डनन--

"अग्न्यन्तिकं समारभ्य तावन्मौनी प्रतिष्ठते ।
यावच्छदींषि दृश्यन्ते हव्यवाहनसद्मनि ॥
चक्षुर्गोचरताऽग्नीनां जायते यावदन्तरा ।
तावत्येव भवेन्मौनमिति सांख्यायनाशयः" इति ॥

 अरण्यारोपितेऽग्नौ प्रवासप्राप्तौ स एव--

"अरण्यारोपितोऽप्यग्निरभयंकरमन्त्रतः ।
उपस्थेयोऽप्रणेयत्वाद्भस्मसंछन्नवह्निवत्" इति ॥

 अस्मिन्विषये पक्षान्तरमप्युक्तं तेनैव--

"यद्वाऽरणिगते वह्नौ प्रवसेदाव्रजेत वा ।
उभयत्राप्युपस्थानं नास्ति कौषीत[]किश्रुतेः" इति ॥

 उपस्थाय प्रवासं न करोति चेत्तदाऽप्यागतोपस्थितिः कार्यैव ।

 तथा च स एव--

" प्रवत्स्यामीत्युपस्थाय वह्निं न प्रवसेद्यदि ।
आगतोपस्थितिं चात्राप्याह कौषीतकी श्रुतिः" इति ॥



  1. च. अन्त्योप ।
  2. क. तकी श्रुतिः " इ ।