पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुनःसंधानप्रयोगः]
७९१
संस्काररत्नमाला

 सप्त ते अग्न इत्यस्याग्निः सप्तवानग्निर्जगती । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । 'ॐ सप्त ते अग्ने० घृतेन स्वाहा' सप्तवतेऽग्नय इदं० ।

 चित्तिः स्रुगिति दशहोतृसंज्ञकस्य वाचस्पते विधे नामन्नित्यादिग्रहसंज्ञकभागसहितस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । ॐ चित्तिः स्रुक्० नृम्णं धात्स्वाहा' वाचस्पतये ब्रह्मण इदं० । इत्यष्टादशाऽऽहुतीर्हुत्वा, इमं मे वरुणेत्यादिसंस्थाजपान्तं कृत्वोक्तरीत्या त्रिवृदन्नहोमं कृत्वा पुण्याहस्वस्त्ययनर्द्धिवाचनं विधायाग्निः प्रीयतामिति वदेत् ।

 ततः पार्वणस्थालीपाकवदाग्नेयस्थालीपाकं सद्य एव कृत्वा वाससी धेनुमनड्वाहं तन्निष्क्रयद्रव्यं वा ब्राह्मणाय दक्षिणां दद्यात् ।

 ततो यथाविभवं ब्राह्मणान्संभोज्य भूयसीं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

"प्रातर्होमोऽङ्गभूतत्वादकालेऽपि विधीयते ।
इति केचिद्गृह्यविदो नाङ्गत्वमिति केचन" ॥

 इति प्रातरौपासनहोमस्य पुनःसंधानाङ्गभूतत्वेन विहितकालासत्त्वेऽपि क्रियेति केचिद्गृह्यकारा आहुः ।

 अन्ये तु प्रातरौपासनहोमस्य पुनःसंधानाङ्गभूतत्वे प्रमाणाभावान्नाविहितकाले क्रियेति । येषां मतेऽङ्गत्वं तन्मत आग्नेयस्थालीपाकात्पूर्वमेव कर्तव्यः । येषां मतेऽङ्गत्वं नास्ति तन्मतेऽन्तःपाती प्रथमो होमो नास्त्येव । नित्यस्य कालप्राप्तस्य प्रातर्हो[१]मस्यानुष्ठाने विकल्पः ।

तत्र कारिकाद्वयम्--

"आधाने पुनराधाने सायंकाल उपक्रमः ।
स्थालीपाकं पौर्णमास्यामारभेत विचक्षणः" इति ॥
"पुनराधानदिवसे हूयेते प्रातराहुती ।
ततस्तु सायमारभ्य होमान्काले तमाचरेत्" इति ॥

 इदानीं प्रचुराचारः सायमुपक्रमविषय एव । यदि संसर्गविधेः प्राग्द्वावप्यग्नी विच्छिन्नौ तदा प्राणानायम्य मम विच्छिन्नस्य प्रथमगृह्याग्नेः पुनःसंधानं करिष्य इति संकल्प्य तदीयविच्छेदप्रायश्चित्तपूर्वकं ज्येष्ठपत्न्या सह तदीयमग्निं संधायैवमेव कनिष्ठया तदीयमग्निं संदध्यात् । तत्र प्रथमगृह्याग्नेरित्यत्र द्वितीयगृह्याग्नेरिति विशेषः । वस्तुतस्तूपवासाहुत्यात्मकमेव प्रायश्चित्तं युक्तं,



  1. क. र्होमानु ।