पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७९०
भट्टगोपीनाथदीक्षितविरचिता-- [पुनःसंधानप्रयोगः]

ग्निर्देवता । द्वितीयस्याग्निरिन्द्रो बृहस्पतिरश्विनौ च देवताः । प्रथमस्य गायत्री छन्दः । द्वितीयस्यानुष्टुप्छन्दः । विच्छिन्नगृह्याग्निपुनःसंधानवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ यन्म आत्मनो मिन्दा० विचर्षणिः स्वाहा" मिन्दवतेऽग्नय इदं० । "ॐ पुनरग्निश्चक्षु० मक्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० ।

 तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रि शत्तन्तव इति मन्त्रत्रयस्याग्निर्ऋषिः । तन्तुमानग्निर्देवता । प्रथमस्य जगती छन्दः । द्वितीयस्य त्रिष्टुप्छन्दः । तृतीयस्य जगती छन्दः । विच्छिन्नगृह्याग्निपुनःसंधानवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ तन्तुं तन्वन्रजसो० जन स्वाहा" तन्तुमतेऽग्नय इदं० । "ॐ उद्बुध्यस्वाग्ने० मेत स्वाहा" तन्तुमतेऽग्नय इदं० । "ॐ त्रयस्त्रि शत्तन्त० स्वाहा" तन्तुमतेऽग्नय इदं० ।

 अग्नेऽभ्यावर्तिन्नित्यादीनां चतुर्णां मन्त्राणामग्निर्ऋषिः । प्रथमस्याग्निरभ्यावर्ती देवता । द्वितीयस्याग्निरङ्गिराः । तृतीयचतुर्थयोरग्निः । प्रथमस्य[१] पञ्चपदोष्णिक् । द्वितीयस्य[२] पञ्चपदा महाबृहती । तृतीयचतुर्थयोर्गायत्री । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः-- "ॐ अग्नेऽभ्यावर्ति० धनेन स्वाहा" अग्नयेऽभ्यावर्तिन इदं० । "ॐ अग्ने अङ्गिरः० मा कृधि स्वाहा" अग्नयेऽङ्गिरस इदं० । "ॐ पुनरूर्जा० विश्वतः स्वाहा" अग्नय इदं० । "ॐ सह रय्या नि० स्परि स्वाहा" अग्नय इदं ।

 व्यस्तसमस्तव्याहृतीनां पूर्ववदृष्यादि, विच्छिन्नेत्यादि विनियोगवाक्यम् । "ॐ भूः स्वाहा" अग्नय इदं० । "ॐ भुवः स्वाहा" वायव इदं० । "ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । अयाश्चाग्न इत्यस्य वामदेवोऽया अग्निः पङ्क्तिः । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ अयाश्चाग्ने० भेषज स्वाहा" अयसेऽग्नय इदं० ।

 मनोज्योतिर्जुषतामित्यस्याग्निर्मनस्वानग्निस्त्रिष्टुप् । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ मनोज्योति० घृतेन स्वाहा" मनस्वतेऽग्नय इदं ।

 प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । 'ॐ प्रजापते न त्वदे० रयीणा स्वाहा' प्रजापतय इदं० ।



  1. ख. स्य निचृदनुष्टुप् । द्वि ।
  2. ख. स्य पङ्क्तिः । तृ ।