पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७६
भट्टगोपीनाथदीक्षितविरचिता-- [पुनःसंधानविचारः]

 गार्ह्ये कर्मणि पुनराधेयाभावात्पुनःसंधानमेव ।

 रजस्वलास्पर्शविषये गो[१]भिलोऽपि--

"अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रकम् ।
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ॥
चण्डालपतितोदक्यासूतिकाकुणपादिभिः ।
संसर्गेऽपि विनाशः स्यादादधीतेति केचन" इति ॥

 सर्वाग्निस्पर्श एव पुनराधानमिति व्यङ्कटेशः । ज्ञानाज्ञानकृता व्यवस्थेत्यन्ये ।

उक्तं च महाभारते--

"रजस्वला चेच्छ्रौताग्निमज्ञानात्स्पृशते यदि ।
इष्टिरष्टाकपालेन कर्तव्या शुचयेऽग्नये" इति ॥

 अत्र श्रौतमित्यग्निविशेषणादज्ञानतः स्मार्ते स्पर्शेऽपि पुनःसंधानमेव । साक्षात्परम्पराकृता व्यवस्थैव युक्तेति बहवः । चण्डालस्पर्शे पतितस्पर्शे चाऽऽधानमेवेति केशववरदराजादयः । सूतक्युपस्पर्शे शवस्पर्शे चैवमिति केचित् । मानुषास्थिस्पर्शे पुनराधानमेव । इतरास्थिस्पर्शे तु शुचीष्टिमात्रमिति केचिदिति प्रायश्चित्तसारकारादयः ।

 मण्डनः--

-"रजोदोषे समुत्पन्ने सूतके मृतके तथा ।
प्रवसन्नग्निमान्विप्रः पुनराधानमर्हति ॥
बह्वीनामपि चैकस्यामुदक्यायां न तु व्रजेत् ।
शिक्येनोद्वाहयेदग्नीन्पुनराधानमर्हति" इति ॥
"एकाकिनी यदा पत्नी वह्निमादाय गच्छति ।
अग्निनाशं परे त्वाहुर्भयाद्याने न दुष्यति ॥
न रुच्यैकाकिनी पत्नी प्रयायादग्निभिः सह ।
राष्ट्रभ्रंशादिसंप्राप्तावुदितं यानमीदृशम्[२]
न क्वाप्यारम्भणं केचिल्लौगाक्ष्याद्यनिबन्धनात् ।
उदक्या चेद्भवेत्पत्नी प्रसूता [३]प्रसवन्त्यपि ॥
अन्वारम्भविकल्पत्वात्पुनराधिर्न तन्मतात् ।
ज्येष्ठाऽन्वारभते पत्नी बहुभार्यस्य नेतराः ॥
आपद्यग्निषु दीप्यत्सु मासार्धं चेन्न हूयते ।
सर्वहोमानतिक्रान्तापक्षान्ते पक्षहोमवत् ॥



  1. क.ख. गोपालोऽ ।
  2. क. म् । नात्वान्वा ।
  3. क. पुस्तके "प्रवसत्यपि" इति शोधितः पाठः ।