एतासामृष्यादिकं तु प्रागुक्तमेव । पुत्रप्रतिग्रहवैशेषिकप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः ।
ततः स्विष्टकृदादि, अङ्गहोमादि वा होमशेषं समाप्याऽऽचार्याय धेनुं दद्यात्[१] । ते एव वाससी कुण्डले अङ्गुलीयकं च[२] । धेनुदानं न वा ।
ततो दश त्री[३]न्वा ब्राह्मणान्भोजयेत् ।
ततोऽग्निं संपूज्य कर्मणः संपूर्णतां वाचयित्वा कर्मसाद्गुण्याय विष्णुं स्मरेत् ।
एवं दत्तकपुत्र्या अपि स्वीकार उक्तविधिना कार्यः । दानप्रतिग्रहविधिषूद्देश्यगतपुंस्त्वाविवक्षणात् । इतिहासपुराणेषु कुन्त्या दत्तकत्वोक्तेश्च ।
एवं भर्त्रनुज्ञया स्त्रियाऽपि रथकारवत्समन्त्रकमेव ग्रहणं कार्यमिति केचित् । अन्यत्रानुज्ञानाद्भर्तुरितिप्रतिप्रसवेन प्रधानाधिकारसिद्धावधिकृताधि[४]कारेण होममन्त्रादिप्राप्तौ स्त्रीशूद्राणाममन्त्रकमिति मन्त्रपर्युदाससिद्धेरमन्त्रकप्रतिग्रहसिद्धिर्वस्त्वन्तरप्रतिग्रहवदित्यन्ये । यद्यपि मेधातिथिना भार्यात्ववददृष्टरूपं दत्तकत्वं होमसाध्यमुक्तं स्त्रियाश्च होमासंभवस्तथाऽपि व्रतादिवद्विप्रद्वारा होमादि कारयेदिति हरिनाथादयः । जीवतो भर्तुरनुज्ञां गृहीत्वा तदभिप्रायं वा ज्ञात्वा विधवयाऽपि ग्राह्य इति कौस्तुभे । दत्तकमीमांसोदाहृते "अथोढक्षेत्रजकृत्रिमपुत्रिकापुत्रस्त्रीद्वारजासुराद्यूढजदक्षिणाजानां पित्रोश्च" इति सत्याषाढसूत्रे स्त्रीद्वारजस्य गोत्रद्वयसंबन्धोऽभिहितः "मातुरुत्तरं पितुः प्रथमम्" इति सूत्रेणेति । पितृगोत्रसंबन्धश्च पुत्रत्वेन । पुत्रत्वं च पित्रनुज्ञानेनैव[५] न परिग्रहेण, व्रतस्य तत्र स्त्रीकर्तृकत्वात् । ऊढः सहोढः । स्त्रीद्वारजः स्त्रिया याचितः स्त्रीसत्ताकः । यज्ञे दक्षिणात्वेन प्राप्तायां कन्यायां जातो दक्षिणाजः । अन्ये प्रसिद्धाः, इति शबरस्वामिनः ।
ननु सूत्रकृता " न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर्देवतायाः कर्मणः शब्दस्य च प्रतिनिधिर्विद्यते" इति पुत्रप्रतिनिधिनिराकरणाद्दत्तकपुत्रस्वीकरणमनुपपन्नमिति चेन्न । तस्य "तन्तवे ज्योतिष्मतीं तामाशिषमाशासे" इत्यादौ पितापुत्रीयसुब्रह्मण्याह्वानादौ च पुत्रप्रतिनिधिं कृत्वाऽऽशीराशंसनप्रवचननिवृत्त्यर्थत्वात् । अन्यथा "पुत्रप्रतिनिधीनाहुः" इत्यादिबहुस्मृतिविप्लवापत्तेः । "तामाशिषमाशासे तन्तवे ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो जातः