विश्वामित्रेण मानसस्य लक्षणमुक्तम्[१]--
"धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् । |
त्रयाणां तारतम्यं च तेनैवोक्तम्--
"उत्तमं मानसं जप्यमुपांशु मध्यमं स्मृतम् । |
जपलक्षणमाह कुम्भसंभवः--
"गुरोर्लब्धस्य मन्त्रस्य शश्वदावर्तनं हि यत् । |
अङ्गेति सुतीक्ष्णसंबोधनम् । अक्षराणामन्तरावर्तनं जप इति संबन्धः ।
वायवीयसंहितायाम्--
"एवमुक्तविधानेन विलम्बत्वरितं विना । |
अयं च जपो दिवैव कार्यः ।
"दिवा चैव जपं कुर्यात्पौरश्चरणिको विधिः" । |
इति फेत्कारिणीतन्त्रे दिवापदाभिधानात् । 'जपं रात्रौ विवर्जयेत् ।' इति कुम्भसंभवेन रात्रिजपनिषेधाच्च ।
देशकालाद्युपद्रवसंभावनायां नायं नियमः ।
"यत्संख्यया समारब्धं प्रत्यहं तावदेव हि । |
तत्रापि चतुर्थभागपर्यन्तमेव जप्त[२](पित) व्यं न पञ्चमभा[३]गे ।
"राक्षसी नाम वेला सा गर्हिता सर्वकर्मसु" ॥ |